24 वाय्वधिकरणम्

॥वायुमब्दादविशेषविशेषाभ्याम्॥ वाजसनेयके ‘यदावै पुरुषोऽस्माल्लोकात्प्रैति सवायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छती’ति। स ब्रह्मवित् छान्दोग्योक्तार्चिर्दिनपूर्वपक्षष़डुदङ्भासाब्दद्वारेण वायुमागच्छतीत्यर्थः। स वायुः तस्मै आगतदाय ब्रह्मविदे। विजिहीते आत्मावयवान् विगमयति। छिद्रीकरोति स्वात्मानमित्यर्थः। ब्रह्मविदो नगमनप्रतिरोधक इति भावः। कियत्परिमाणं छिद्रमित्याह- यथा रथचक्रस्य खं रथचक्रमध्यवर्ति रन्ध्रं यत्परिमाणं तत्परिमाणछिद्रं करोति तेन छिद्रेण ऊर्ध्वं गत्वा स आदित्यलोकमागच्छतीत्यर्थः। ‘तस्मै स तत्र विजिहीते यथा आडम्बरस्य खं तेन स ऊर्ध्वमाक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं तेन स ऊर्ध्वमाक्रमते स लोकमागच्छत्यशोकमहिमं तस्मिन्वसति शाश्वतीस्समा’ इति। स्पष्टोऽर्थः॥ नच ‘देवलोकादादित्य’मिति श्रुतेः अस्याश्श्रुतेश्च विरोध इति वाच्यं। योयं पवत एष देवानां ग्रह’इति श्रुतेः वायोरेव तत्र देवलोकशब्दवाच्यत्वात्। इतरधा देवलोकादादित्यमिति आदित्यानन्तरपूर्वपर्वतया देवलोकनिर्देशकस्यास्यवाक्यस्य ‘स वायुमागच्छति स आदित्यमागच्छती’ति वायोरादित्यसमनन्तरपूर्वपर्वत्वप्रतिपादकश्रुतिविरोधप्रसङ्गात्। अतो देवलोकवायुशब्दयोरेकार्थत्वं वक्तव्यम्॥ वायुं अब्दात् संवत्सरात् ऊर्ध्वमधिकगच्छेत्। अविशेषविशेषाभ्यां सामान्यविशेषाभ्यां। देवलोकशब्दो हि सामान्यशब्दः। वायुशब्दो विशेषशब्दः। अतो वायुरेव देवलोक इति। ॥इति वाय्वधिकरणम्॥