॥अर्चिरादिना तत्प्रथितेः॥ छान्दोग्ये पञ्चाग्निविद्यायां ‘वेत्थपथोर्देवयानस्य पितृयाणस्य च व्यावर्तना’इति चतुर्थं पश्नं" प्रतिपाद्य तद्य ‘इत्थं विदुर्येचेमेऽरण्ये श्रद्धातपइत्युपासते तेऽर्चिषमगिसम्भवन्ती’ति श्रुतम्। अत्र तच्छब्देन प्राक्प्रस्तुतं संसारिजीवस्वरूपं" परामृश्यते- तत्प्रत्यगात्मस्वरूपं ये इत्थं उक्तप्रकारेण द्युपर्जन्यपृथिवीपुरुषयोषित्सु श्रद्धासोमवृष्ठ्यन्नरेतश्शरीरकतया देहादिलक्षण प्रकृतिवियुक्ततया च उपासतइत्यर्थः। उत्तरवाक्ये श्रद्धाशब्दो द्वितीयांतः। वाजसनेयके समानप्रकरणे ‘श्रद्धांसत्यमुपासत’इति श्रवणात्। सुपांसुलुगिति द्वितीयाया लुक्। तपश्शब्दोऽपि ब्रह्मपरः। ‘परम यो महत्तप’ इत्यादिषु दर्शनात्। एवकारश्चात्राध्याहर्तव्यः। ततश्च अरण्ये स्थित्वा श्रद्धां पुरस्कृत्य तपएव ब्रह्मैव य उपासते त उभयेऽपि अर्चिषमभिसम्भवन्ति प्राप्नुवन्त्येवेत्यर्थः। ‘अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान्मासेभ्यस्संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं" तत्पुरुषोऽमानवस्सएनान् ब्रह्मगमयती’ति। अत्र अर्चिरादिशब्दास्तत्तदभिमानिदेवतापराः। तत्पुरुषः" वैद्युतः पुरुषः अमानवः असंसारी। ब्रह्मलोकादागत्य एनान् पूर्वोक्तद्विविधोपासकान् ब्रह्मलोकं प्रापयतीत्यर्थः। ‘अमानवस्सएत्य ब्रह्मलोकान् गमयती’ति श्रुत्यन्तरे श्रवणात्। ‘एष देवयानः पन्था’इति। स्पष्टोऽर्थः। अत्र अर्चिरादिरेकएव मार्गः उत मार्गान्तरमप्यस्तीतिसंशये ‘यावत्क्षिप्येन्मनस्तावदादित्यंगच्छती’ति त्वरावचनेन वैलक्षण्यप्रतीतेः मार्गभेदोऽप्यस्तीति पूर्वपक्षे उच्यते- अर्चिरादिना तत्प्रथितेः। नानाशाखासु तस्यैव मार्गस्य प्रथितेः प्रत्यभिज्ञानात् अर्चिरादिरेकएव मार्गः। त्वरावचनन्तु काश्मीरापेक्षया मगधान् क्षिप्रं गच्छतीतिवदुपपत्तेः स्वर्गगमनाद्यपेक्षया आदित्यगमनस्य शैन्येण न तस्माद्वैलक्षण्यसिद्धिः॥ ॥इति अर्चिराद्यधिकरणम्॥