22 दक्षिणायनाधिकरणम्

॥अतश्चायनेऽपि दक्षिणे॥ ‘दिवाच शुक्लपक्षश्चे’त्येतत्त्वब्रह्मविद्विषयमिति पूर्वाधिकरण एेव स्थितत्वात् कथमस्याश्शङ्काया उत्थितिरिति चेत्, सत्यम्। दक्षिणायनमृतस्य चन्द्रप्राप्तिश्रवणात्, चन्द्रंप्राप्तस्य पुनरावृत्तिश्रवणाच्च भीष्मादीनां ब्रह्मविदां उत्तरायणप्रतीक्षादर्शनाच्च दणिणायनमृतस्य न ब्रह्मप्राप्तिरिति अधिकाशङ्काया मुच्यते- अतश्चायनेऽपि दक्षिणे। अयनेऽपि दक्षिणे मृतस्य पूर्वाधिकरणोक्तयुक्त्याऽस्त्येव ब्रह्मप्राप्तिः। चन्द्रं प्राप्तस्यापि विदुषः ‘तस्माद्ब्रह्मणो महिमानमाप्नोती’ति वाक्यशेषे ब्रह्मप्राप्तिश्रवणाच्चन्द्रप्राप्तिर्विश्रमहेतुमात्रम्। चन्द्रंप्राप्तस्य पुनरावृत्तिवचनं अब्रह्मविद्विषयम्। भीष्मादीनां स्वच्छन्दमरणानां उत्तरायणप्रतीक्षणमुत्तरायण प्राशस्त्यप्रदर्शनार्थम्॥ ननु ‘यत्र कालेत्वनावृत्तिमावृत्तिञ्चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि पुरुषर्षभ॥ अग्निर्ज्योतिरहश्शुक्लः षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्मब्रह्मविदो जनाः॥ धूमो रात्रिस्तथा कृष्णष्षण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥ शुक्लकृष्णे गतीह्येते जगतश्शाश्वते मते। एकया यात्यनावृत्तिमन्यया वर्तते पुन’रिति स्मरणं कथमुपपाद्याम्॥ तत्राह-॥योगिनः प्रतिस्मर्येते स्मार्तेचैते॥ अस्मिन्प्रकरणे अर्चिरादिगतिः धूमादिगतिरित्येते द्वे गती स्मार्ते स्मर्तव्यत्वेन योगिनइति स्मर्येते। न तु मुमूर्षतां कालविशेषोऽभिधीयते। ‘नैते सृती पार्थजानन् योगी मुह्यति कश्चने’त्युपसंहारात्। यत्र ‘कालेत्वनावृत्ति’मित्यस्य यत्कालाभिमानिदेवताभिरतिवाहितः ब्रह्मप्राप्नोति तं मार्गं वक्ष्यइत्येवार्थः। अतो योगिनो गतिद्वयविधानार्थोऽयं संरंभ इति॥ ॥इति दक्षिणायनाधिकरणम्॥ ॥इति चतुर्थस्याध्यायस्य द्वितीयः पादः॥