21 निशाधिकरणम्

॥निशिनेतिचेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयतिच॥ ‘दिवाच शुक्लपक्षश्च षण्मासा उत्तरायणम्। मुमूर्षतां प्रशस्तानि विपरीतन्तु गर्हित’मिति निशामरणस्य निंदितत्वावेदनेनाधोगतिहेतुत्वप्रतीतेः निशि मृतस्य ब्रह्मप्राप्तिर्नास्तीति पूर्वपक्षे प्राप्त उच्यते- निशिनेतिचेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च। तस्य ह्ययमर्थः। कर्मसम्बन्धाभावे शरीरान्तरपरिग्रहासम्भवाद्यावद्देहं" कर्मसम्बन्धो वक्तव्यः। निशि मृतस्यापि ब्रह्मविदः प्रारब्धव्यतिरिक्तकर्मणां विद्यया नष्टत्वात् अवशिष्टप्रारब्धस्य भोगेन नष्टत्वात्, ‘तस्य तावदेव चिर’मिति प्रारब्धकर्मार्जितशरीरपातमात्रस्यैवान्तरायत्वश्रवणाच्च प्रारब्धकर्मार्जितशरीरनाशे पुनश्शरीरान्तराप्रसक्तेः निशि मृतस्यापि ब्रह्मविदेऽस्त्येव ब्रह्मप्राप्तिः॥ ॥इति निशाधिकरणम्॥