॥रश्म्यनुसारी॥ ‘अथयत्रैतदस्माच्छरीरादुत्क्रामति अथैतैरेव रश्मिभिरूर्ध्वमाक्रमत’ इति प्रतिपादितस्य विदुषोरश्मिगमनस्य निशिमृतेविदुष्यसंभवात् रश्मिभिरेवगमनमिति ननियमः, अथैतैरेवरश्मिभिरिति वचनन्तुपक्षप्राप्तविषयं। एवकारस्तु अत्यन्तायोगव्यवच्छेदार्थ इति प्राप्तउच्यते- ‘रश्म्यनुसारी’विद्वान् नियमेनरश्मीननुसृत्यैवगच्छति। ‘एतैरेव रश्मिभि’रित्येवकारस्य क्रियासंगतैवकारत्वाभावेन अत्यन्तायोगव्यवच्छेदार्थकत्वाभावेन अन्ययोगव्यवच्छेदार्थकत्वस्थैव वक्तव्यत्वात्। यदुक्तं निशिरश्म्यसंभवात् रश्मीननुसृत्य गमनं नोपपद्यत इतितन्न। निदाघसमयोरात्रावपि उष्मोपलंभात् हेमन्तादौ तु हिमाभिभवात् दुर्दिनइव ऊष्मानुपलम्भः। श्रूयते च नाडीरश्मीनां सर्वदाऽन्योन्यान्वयः। ‘तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमञ्चामुञ्च एवमेवैत आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमञ्चामुञ्च अमुष्मादादित्यात्प्रतायन्ते त आसु नाडीषु सृप्ताः आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ता’इति॥ ॥इति रश्म्यनुसाराधिकरणम्॥