19 तदोकोधिकरणम्

॥तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्चहार्दानुगृहीतश्शताधिकया॥ कठवल्ल्यां श्रूयते-‘शतञ्चैकाच हृदयस्य नाड्य स्तासांमूर्धानमभिनिस्सृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणेभवन्ती’ति। अत्र मूर्धन्यनाड्यैव विदुषो गमनं अन्याभिरविदुषो गमनमिति नियमो नोपपद्यते। नाडीनां भूयस्त्वादतिसूक्ष्मत्वाच्च दुर्विवेचतया पुरुषेणोपादातुमशक्यत्वात् ‘तयोर्ध्वमायन्नमृतत्वमेती’ति श्रुतिः याड़ृच्छिकीमुत्क्रान्तिमनुवदतीति प्राप्त उच्यते- तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधिकया। विद्वान् शताधिकया मूर्धन्ययैव नाड्या उत्क्रामति। न च नाड्या नानात्वाद्विदुषो दुर्विवेचत्वं। विद्वान्हि परमपुरुषाराधनभूतात्यर्थप्रियविद्यासामर्थ्यात् विद्याशेषभूततया आत्मनः अत्यर्थप्रियगत्यनुसन्धानयोगाच्च प्रसन्नेन हार्देन परमपुरुषेण अनुगृहीतो भवति। तदोकः तस्य जीवस्य स्थानं हृदयं अग्रे ज्वलनं प्रकाशनं" यस्य तदिदमग्रज्वलनं। तत्प्रसादात् परमपुरुषप्रसादात् प्रकाशितद्वारो विद्वान् तां नाडीं विजानातीति तया विदुषो गतिरुपपद्यते॥ ॥इति तदोकोऽधिकरणम्॥