॥अविभागो वचनात्॥ तथा सेयं परमात्मनि जीवस्य सम्पत्तिः प्राकृतलयवत्कारणापत्तिरूपैव। सर्वात्मनः सर्वोपादानत्वात्। न तु वागादेर्मन आदिष्विवाविभागमात्रमिति पूर्वपक्षेप्राप्ते उच्यते- अविभागोवचनात्। अत्रापि पृथग्भावानर्हसंसर्गविशेषलक्षणाविभागएव संपत्तिशब्दार्थः। ‘वाङ्मनसि संपद्यत’ इत्यत्र सतस्संपद्यत इति शब्दस्यैवैहाप्यनुषज्यमानतया अभिधानवैरूप्याश्रयणस्यान्याय्यत्वादिति स्थितम्। ॥इति अविभागाधिकरणम्॥