॥तानि परे तथाह्याह॥ ‘तेजःपरस्यां देवताया’मित्यत्र जीवपरिष्वक्ततेजश्शब्दितभूतसूक्ष्माणां परदेवतासम्पत्तौ प्रयोजनाभावात् ‘तेजःपरस्यां देवताया’मिति श्रुतिः स्तुतिमात्रपरेति पूर्वपक्षे प्राप्तउच्यते- तानि परे तथाह्याह। तानि जीवसंसृष्टानि भूतसूक्ष्माणि परे परमात्मनि सम्पद्यन्ते। कुतः; तथाह्याह श्रुतिः- ‘तेजः परस्यां देवताया’मिति। श्रुतिवशाच्च सुषुप्तिप्रळययोरिव परमात्मसम्पत्तेः सुखदुःखोपभोगायासविश्रमः" प्रयोजनत्वेन परिकल्प्यत इति स्थितम्॥ ॥इति परसम्पत्त्यधिकरणम्॥