16 आसृत्युपक्रमाधिकरणम्

॥समानाचासृत्युपक्रमादमृतत्वञ्चानुपोष्य॥ ‘अत्रब्रह्मसमश्नुत’इत्यत्रैव विदुषो ब्रह्मभावश्रवणात् नोत्क्रांतिरितिप्राप्तेउच्यते- समानाचासृत्युपक्रमादमृतत्वञ्चानुपोष्य। आसृत्युपक्रमात् आगत्युपक्रमात्। नाडीप्रवेशात् प्रागुत्क्रान्तिर्विद्वदविदुषोस्समाना। ‘शतञ्चैकाच हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका। तयोर्ध्वमायन्नमृतत्वमेती’ति विदुषोऽपि नाडीविशेषेणोत्क्रमणश्रवणादुत्क्रान्तिरवर्जनीयैव। ‘अथमर्त्योऽमृतोभवत्यत्र ब्रह्मसमश्नुत’इति विदुषोऽत्रैव श्रूयमाणं यदमृतत्वं तदनुपोष्य शरीरेन्द्रियसम्बन्धमदग्ध्वैव उत्तरपूर्वाघाश्लेषविनाशरूपममृतत्वमुच्यते। ‘अत्र ब्रह्मसमश्नुत’इति विदुषोऽत्रैव श्रूयमाणं यदमृतत्वं" तदनुपोष्य शरीरेन्द्रियसम्बन्धमदग्ध्वैव उत्तरपूर्वाघाश्लेषविनाशरूपममृतत्वमुच्यते। ‘अत्र ब्रह्मसमश्नुत’इतिचोपासनकालब्रह्मानु भवाभिप्रायम्॥॥तदापीतेस्संसारव्यपदेशात्॥ अवश्यं च तत् अमृतत्वमदग्धदेहसम्बन्धस्यैव वक्तव्यम्। कुतः? आपीतेस्संसारव्यपदेशात्। अपीतिः अप्ययः। आब्रह्माप्ययं संसारो हि व्यपदिश्यते। ‘तस्य तावदेव चिरं यावन्नविमोक्ष्ये अथ सम्पत्स्य’ इति, ‘अश्व इव रोमाणि विधूय पापं चन्द्रइव राहोर्मुखात् प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानी’ति व्यपदेशात्॥॥सूक्ष्मं प्रमाणतश्च तथोपलब्धेः॥ देवयानेन पथा गच्छतोऽपि विदुषः ‘तं प्रतिब्रूयात्सत्यं ब्रूया’दिति चन्द्रमस्संवादस्य प्रमाणप्रतिन्नत्वाच्च सूक्ष्मं शरीरमामोक्षमनुवर्ततइत्यभ्युपगन्तव्यम्। नह्यशरीरस्य चन्द्रमसा संवादस्सम्भवति॥॥नोपमर्देनातः॥ अतः ‘अथमर्त्योऽमृतो भवती’ति श्रूयमाणममृतत्वं शरीरेन्द्रियसम्बन्धानुपमर्देनैवोत्तरपूर्वाघाश्लेष विनाशरूपमंगीकर्तव्यम्॥॥अस्यैवचोपपत्तेरूष्मा॥ अस्य सूक्ष्मशरीरस्य क्वचिदुपसंहृतत्वादेव विदुषोऽपि म्रियमाणस्य क्वाचित्कऊष्मोपलभ्यते॥॥प्रतिषेधादितिचेन्न शारीरात्स्पष्टोह्येकेषाम्॥ ननु ‘योऽकामो निष्काम आप्तकाम आत्मकामो नतस्य प्राणा उत्क्रामन्ती’ति विदुषो देहादुत्क्रान्तिः" प्रतिषिद्धा। नचेदं शारीरापादानकोत्क्रमणनिषेधपरमिति वाच्यम्। ‘यत्रायं पुरुषो म्रियते उदस्मात्प्राणाः" क्रामन्त्याहोने’त्यार्तभागप्रश्ने ‘नेतिहोवाच याज्ञवल्क्यः सउच्छ्वयत्याध्मायत्याध्मातोमृतश्शेते’ इति उच्छूनत्वादीनां शरीरधर्माणां प्रतिपादनेन शरीरापादानकोत्क्रमणप्रतिषेधस्यैव युक्तत्वात्। न हि शारीरस्योच्छूनत्वमाध्मातत्वं शयितृत्वं वा युज्यते। अतश्शरीरापादनकोत्क्रमणनिषेधान्नोत्क्रान्तिर्विदुष इति चेन्न। शारीरादेवोत्क्रमणं प्रतिषिध्यते एकेषां माध्यदिनानामाम्नाये विस्पष्टं ‘योऽकामोनिष्काम आप्तकाम आत्मकामो न तस्मात्प्राणा उत्कामन्ती’ति शारीरापादानकोत्क्रमणप्रतिषेधात्। काण्वशाखायान्तु ‘न तस्य प्राणा’ इति षष्ठी नटस्य श्रृणोतीतिवदपादानत्वलक्षणसम्बन्धपरा। ‘उदस्मात्प्राणाः क्रामन्त्याहो ने’त्यार्तभागप्रश्ने तु विदुषोऽप्रस्तुतत्वेनाविद्वद्विषयत्वावश्ययंभावेनाविदुषश्च शरीरादुत्क्रान्तेः" प्रतिषेद्धुमशक्यतया नत्रापि शारीरापादानकोत्क्रमणप्रतिषेधपरत्वस्यैव युक्तत्वात्। न च तत्र वाक्यशेषश्रुतानामुच्छूनत्वादीनामात्मन्यनुपपत्तिः, शरीरापादानकोत्क्रान्तिप्रतिषेधवादिनापि ‘आत्मकामो न तस्मात्प्राणा उत्क्रामन्ती’ति माध्यन्दिनशाखावाक्ये अभेदोपचारस्यावश्याश्रयणीयत्वात्। न च प्राणानां शारीरादुत्क्रान्तेरप्रसक्ततया प्रतिषेधो न युक्त इति वाच्यम्। वृषादुड्डीयमानविहङ्गमसङ्घवद्यथायथं गमनसम्भवात्, ‘तस्य तावदेव चिरं यावन्नविमोक्ष्येऽथ संपत्स्य’ इिति देहवियोगानन्तरब्रह्मसम्पत्तिवचनेन तदानीमेव शारीरात् प्राणोत्क्रमणस्य प्रसक्तत्वाच्च। तथा च सूक्ष्मशरीरसाध्यार्चिरादिगत्यभावे ब्रह्मसंपत्तेः तत्साध्याया अनुपपत्तिरिति शङ्कापरिहाराय ‘न तस्य प्राणा उत्क्रामन्ती’त्युच्यत इति निरवद्यम्। अतो विद्वदविदुषोरुत्क्रान्तिस्समानेति॥॥स्मर्यते च॥ ‘ऊर्ध्वमेकस्स्थितस्तेषां यो भित्वा सूर्यमण्डलम्। ब्रह्मलोकमतिक्रम्य तेन याति परां गति’मिति मूर्धन्यनाड्या विदुषोऽप्युत्क्रान्तिः स्मर्यते॥ ॥इति आसृत्युपक्रमाधिकरणम्॥