॥भूतेषु तच्छ्रुतेः॥ ‘प्राणस्तेजसी’ति जीवयुक्तस्य प्राणस्य तेजोमात्र एव सम्पत्तिश्रवणान्नसर्वभूतसम्पत्तिरिति प्राप्ते उच्यते- भूतेषु तच्छ्रुतेः। सजीवः प्राणस्संहतेषु सर्वेषु सम्पद्यते। ‘पृथिवीमस्य आपोमयस्तेजोमय’ इति सञ्चरतो जीवस्य सर्वभूतमयत्वश्रवणेन सर्वभूतसम्पत्तेर्वक्तव्यत्वात्॥॥नैकस्मिन्दर्शयतो हि॥ एकस्मिन्तेजोमात्रे न सम्पद्यते, एकैकस्य भूतस्य कार्याक्षमत्वं, ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपो व्याकरवाणीति तासां त्रिवृतं त्रिवृतमेकैकां करवाणी’ति ‘नानावीर्याः पृथग्भूता स्ततस्ते संहतिं विना। नाशक्नुवन्प्रजास्स्रष्टुमसमागम्य कृत्स्नशः॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः। महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते’इति श्रुतिस्मृती दर्शयत इत्यर्थः॥ ॥इति भूताधिकरणम्॥