14 अध्यक्षाधिकरणम्

॥सोऽध्यक्षे तदुपगमादिभ्यः॥ ‘प्राणस्तेजसी’ति श्रुतेः प्राणस्तेजसि सम्पद्यत इति प्राप्ते उच्यते-सोऽध्यक्षे तदुपगमादिभ्यः। सः इन्द्रियसहितः प्राणः अध्यक्षे जीवे सम्पद्यते। ‘एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ती’ति प्राणानां जीवोपगमस्य, तेन सहोत्क्रान्तेश्च श्रवणीज्जीव एव सम्पद्यते, गंगया संयुज्य सागरं गच्छन्त्यां" यमुनायां यमुनासागरं गच्छतीति प्रयोगज्जीवद्वारा प्राणस्य तेजस्सम्पत्तावपि ‘प्राणस्तेजसी’त्युक्तिरुपपद्यते। न च प्राणस्य तेजोद्वारेणैव जीवोपगमोऽस्त्विति वाच्यम्। निरध्यक्षस्य प्राणस्य तेजसि स्थितेरसम्भवादिति स्थितम्। ॥इति अध्यक्षाधिकरणम्॥