13 मनोधिकरणम्

॥तन्मनः प्राणउत्तरात्॥ ‘मनः प्राणे’इत्यत्र मनोवृत्तेरेव प्राणे अप्ययउच्यते, मनश्शब्दस्य मनोवृत्तिष्वपि प्रचुरप्रयोगसत्त्वात्। न तु पूर्वोक्तरीत्या संयोगविशेषस्सम्पत्तिशब्दार्थ इति प्राप्ते उच्यते- तन्मनःप्राणउत्तरात्। मनसो निर्व्यापारताहेतुभूतः प्राणेन संयोगविशेष एव इहापि सम्पत्तिशब्दार्थः। ततश्च मन एव प्राणे सम्पद्यते ‘मनःप्राण’इत्युत्तरवाक्यादित्यर्थः। मनश्शब्दस्य मनोवृत्तिपरत्वेऽपि सम्पत्तिश्रुतेर्गौणत्वावश्यम्भावेन मनश्शब्दस्य गौणत्वाश्रयणस्यान्याय्यत्वादिति॥ ॥इति मनोधिकरणम्॥