12 वागधिकरणम्

॥वाङ्मनसि दर्शनाच्छब्दाच्च॥ ‘वाङ्मनसि सम्पद्यते’इति श्रूयमाणा वाचो मनस्सम्पत्तिर्वाग्वृत्तिविषया न तु वाग्विषया। वाचो मनः" प्रकृतिकत्वाभावेनाप्रकृतिभूते मनसि वाचः साक्षाल्लयासम्भवात्। न च वाग्वृत्तेरप्यप्रकृतिभूते मनसि सम्पत्तिशब्दितो लयो न सम्भवतीति वाच्यम्। मनसि स्थितेऽपि वाग्व्यापाराभावमात्रेण सम्पद्यतइत्युपपत्तेः। विद्यमानायास्तु वाचस्तादात्विकाभावस्याप्यभावेन सम्पत्तिश्रुतेरत्यन्तासम्भवादिति पूर्वपक्षे प्राप्त उच्यते- वाङ्मनसि दर्शनाच्छब्दाच्च। वाक्स्वरूपमेव मनसि सम्पद्यते। वागिंद्रिये उपरतेऽपि मनः प्रवृत्तिदर्शनात्। ‘वाङ्मनसि सम्पद्यत’ इति शब्दाच्च वागेव मनसि सम्पद्यते। यद्यपि मनसो वाक्प्रकृतित्वं नास्ति। तथाऽप्यनुपरतव्यापारेऽपि मनसि वाच उपरतव्यापारत्वदर्शनात् वाङ्मनसि सम्पद्यतइवेत्युच्यते। वृत्तिपक्षेऽपि सम्पद्यत इत्यस्य गौणत्वावश्यम्भावात्। ततश्च वाचो निर्व्यापारताहेतुभूतो मनसा संयोगविशेषस्सम्पत्तिशब्दार्थ इति द्रष्टव्यम्॥॥अत एव सर्वाण्यनु॥ ‘यतोवाचो मनसा संयोगमात्रं सम्पत्तिः, अतएव ‘तस्मादुपशांततेजाः, पुनर्भवमिंद्रियैर्मनसि सम्पद्यमानैः’ इति वाचमनु सर्वेषामिन्द्रियाणां सम्पत्तिश्रुतिरपि तदर्थिकैवेत्यर्थ इति॥ ॥इति वागधिकरणम्॥