11 इतरक्षपणाधिकरणम्

॥भोगेनत्वितरे क्षपयित्वाऽथ सम्पद्यते॥ ‘तस्य तावदेवचिरं यावन्नविमोक्ष्येऽथ सम्पत्स्य’इति विद्यायोनिशरीरपातमात्रस्यैवान्तरायत्वश्रवणात् प्रारब्धयोः पुण्यपापकर्मणोस्सत्वेऽपि विद्यायोनिशरीरावसान एव मोक्षइति प्राप्तउच्यते- भोगेनत्वितरे क्षपयित्वाऽथ सम्पद्यते। तुशब्दः पक्षव्यावृत्त्यर्थः। आरब्धकार्ये पुण्यपापे फलभोगेन क्षपयित्वा ब्रह्म सम्पद्यते। ते च प्रारब्ध पुण्यपापे विद्यायोनिशरीरमात्रोपभोग्यफलेचेत् विद्यायोनिशरीरावसाने, अनेकशरीरभोग्यफलेचेत् तदवसाने, सम्पद्यते। भोगेनैव क्षपयितव्यत्वादारब्धपुण्यपापकर्मणोः। ‘तस्य तावदेवचिरं यावन्नविमोक्ष्य’ इत्यत्र न तच्छरीरविमोक्ष उच्यते। अपितु देहारम्भककर्माविमोक्षएवेति निष्कर्षः॥ ॥इति इतरक्षपणाधिकरणम्॥ ॥इति चतुष्षष्टिप्रबन्धनिर्माणसंसूचितसर्वतंत्रताबिरुदांचितैः श्रीमद्रंग रामानुजमुनिभिरनुगृहीतायां श्रीशारीरकब्रह्मसूत्रव्याख्यायां" शारीरकशास्त्रार्थदीपिकायां चतुर्थस्याध्यायस्य प्रथमः पादः॥