10 अग्निहोत्राद्यधिकरणम्

॥अग्निहेत्रादितु तत्कार्यायैव तद्दर्शनात्॥ विद्योत्पत्त्यनन्तरभाविनामाश्रमधर्माणां सुकृतत्वाविशेषेण विद्योत्पत्तिकार्यार्थत्वाभावेन च अनारब्धकार्यस्य विद्याननुगुणकारीर्यादिकर्मवदश्लेषस्यैव वक्तव्यत्वात् आश्रमकर्मत्वेनानुष्ठानेऽपि विद्यार्थतया अननुष्ठानमेव युक्तमिति प्राप्तेऽभिधीयते- अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्। अग्निहोत्राद्याश्रमकर्मविद्योत्पत्त्याख्यकार्यायैव आप्रयाणादनुष्ठेयमेव। ‘तमेतं वेदानुवचनेने’त्यादिना विद्योत्पत्तिकार्यार्थत्वदर्शनात्। न च विद्याया निष्पन्नतया न तदर्थमनुष्ठानमावश्यकमिति वाच्यम्। आप्रयाणादनुवर्तनीयाया अहरहरभ्यासाधेयातिशयाया विद्याया अहरहरुत्पत्त्यर्थमनुष्ठानस्यावश्यकत्वात्॥ नन्वेवमग्निहोत्रादिसाधुकृत्या विद्योत्पत्त्यर्थः। तदतिरिक्ता साधुकृत्या अनुभूतफलाप्रारब्धफलावा।तर्हि ‘सुहृदस्साधुकृत्या’मिति वचनस्य को विषय इत्यत्राह-॥अतोऽन्यापिह्येकेषामुभयोः॥ विद्योत्पादिकाया अग्निहोत्रादिसाधुकृत्याया अन्या विद्यायाः पूर्वोत्तरकालानुष्ठिता प्रबलकर्मप्रतिबद्धफला अनन्ता साधुकृत्या सम्भवत्येव। तद्विषया सुहृदस्साधुकृत्यामिति श्रुतिः अश्लेषविनाशश्रुतिश्चा अतो न विरोधः॥।यदेव विद्ययेति हि॥ ‘यदेव विद्यया करोती’ति उद्गीथविद्यायाः क्रतुफलाप्रतिबन्धफलत्वप्रतिपादनेन अनुष्ठितस्य कर्मणः" फलप्रतिबन्धसूचनात् अनुष्ठितप्रतिबद्धफलविषयत्वं ‘सुहृदस्साधुकृत्या’मिति वचनस्येति पृथग्घ्यप्रतिबन्धः" फलमिति सूत्रप्रतिपादितोऽर्थः अनेन सूत्रेण स्मारितः॥ ॥इति अग्निहोत्राधिकरणम्॥