09 अनारब्धकार्याधिकरणम्

॥अनारब्धकार्ये एव तु पूर्वे तदवधेः॥ ‘सर्वे पाप्मानः प्रदूयन्त’इति सर्वकर्मप्रदाहश्रवणात् ब्रह्मविद्योत्पत्त्यनन्तरमेव सर्वकर्मणां" नाशः। देहस्थितिस्तु चक्रभ्रमणादिवत्संस्कारवशादप्युपपद्यत इति प्राप्ते उच्यते- अनारब्धकार्ये एव तु पूर्वे तदवधेः। विद्योत्पत्तेः प्राचीने अनारब्धकार्ये एव सुकृतदुष्कृते नश्यतः नत्वारब्धकार्ये। ‘तस्य तावदेव चिरं यावन्नविमोक्ष्य’इति शरीरपातविलम्बावधिश्रवणाद्यावच्छरीरधारणं प्रारब्धकर्मानुवृत्तेरवश्यम्भावात्, कर्मव्यतिरिक्तस्तु देहधारकसंस्कारस्य सद्भावे प्रमाणाभावादित्युक्तम्॥ ॥इति अनारब्धकार्याधिकरणम्॥