॥इतरस्याप्येवमसंश्लेषः पाते तु॥ पुण्यकर्मफलस्य सुखरूपत्वेन विदुषोऽनिष्टत्वाभावात् नाश्लेषविनाशाविति पूर्वपक्षे प्राप्त उच्यते- इतरस्याप्येवमसंश्लेषः पाते तु। विदुषः पुण्यस्यापि मोक्षविरोधित्वेन अनिष्टफलत्वसाम्यादेव अश्लेषविनाशौ। विद्यानुगुणस्य वृष्ट्यन्नारोग्यफलस्य शरीरपाते सति अनिष्टत्वादश्लेषः॥ ॥इति इतराधिकरणम्॥