07 तदधिगमाधिकरणम्

॥तदधिगमउत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्॥ ‘नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपी’ति भोगादेव कर्मक्षयश्रवणात् अश्लेषविनाश श्रुतिः कथञ्चित् विद्यास्तुत्यर्थतया नेयेतिप्राप्त उच्यते- तदधिगमउत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्। उपासने प्रारब्धे तत्सामर्थ्यादेव पूर्वाधविनाशः" उत्तराघाश्लेषश्च भवति। तद्व्यपदेशात्। ‘एवंहास्य सर्वे पाप्मानः प्रदूयन्ते। एवमेवंविदि पापं" कर्म न श्लिष्यत’इति श्रुतेः। नच ‘नाभुक्तं क्षीयते कर्मे’ति वचनविरोधः। तस्य प्रारब्धफलकर्मणां" फलजननसामर्थ्यदार्ढ्यविषयत्वात् अश्लेषविनाशश्रुत्योश्च तद्भिन्नकर्मणां तत्सामर्थ्यनिवारणशक्तिप्रतिपादनपरत्वात्। अन्यथा कर्ममात्रस्य भोगैकनाश्यत्वाभ्युपगमे भोगंविना कर्म न नश्यतीति भोगार्थं शरीरमवर्जनीयं" तस्मिन्नपि शरीरे पापार्जनं भवतीति अनिर्मोक्षप्रसङ्गइति मोक्षशास्त्रैरेव पापाश्लेषविनाशयोरपेक्षितत्वादिति॥ ॥इति तदधिगमाधिकरणम्॥