॥आप्रयाणात्तत्रापि हि दृष्टम्॥ इदमपवर्गसाधनमुपासनं एकस्मिन्नेवाहनि कार्यं शास्त्रार्थस्य तावतैव कृतत्वादिति पूर्वपक्षे प्राप्ते उच्यते- आप्रयाणात्तत्रापि हि दृष्टम्। उपासनं आमरणमनुवर्तनीयं। ‘स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तत’ इति उपासनस्य यावदायुषमनुवर्तनीयत्वविधानात्॥ ॥इति आप्रयाणाधिकरणम्॥