॥आसीनस्सम्भवात्॥ आसीन एव उपासीत। तस्यैव उपासनस्य सम्भवात् तिष्ठतो गच्छतश्च यत्नसापेक्षत्वात् शयानस्य निद्राप्रसक्तेश्च उपासनस्य ध्यानरूपत्वाच्च एकाग्रचित्ततावश्यम्भावात् चित्तैकाग्न्यस्यासनसापेक्षत्वाच्चासीन एव कुर्यात्॥॥ध्यानाच्च॥ सजातीयप्रत्ययान्तराव्यवहितचिंतालक्षणध्यानलक्षणत्वादुपासनस्य तत्र च चित्तैकाग्न्यावश्यम्भावेन तत्सिद्धये आसीनत्वस्यापेक्षितत्वाच्च॥॥अचलत्वञ्चापेक्ष्य॥ ‘ध्यायतीव पृथिवी ध्यायतीवान्तरिक्ष’ मित्यादिषु निश्चलत्वधर्मेण ध्यातृसाम्यव्यपदेशदर्शनात् ध्यातृनिश्चलत्वस्यापेक्षितत्वात् निश्चलत्वस्यचासिकामन्तरेणासम्भवात् आसीन एव कुर्यात्॥॥स्मरन्ति च॥ ‘उपविश्यासने युज्याद्योगमात्मविशुद्धये’ इति ध्यानांगतया आसीनता स्मर्यते। अतो ध्याने चित्तैकाग्न्यस्य अत्यावश्यकत्वात्तदर्थमासीनत्वमपेक्षितम्॥॥यत्रैकाग्रता तत्राविशेषात्॥ यत एव चित्तैकाग्न्यं प्रधानहेतुः अतएव यस्मिन्देशे चित्तैकाग्न्यं भवति स देशोऽपेक्षितः। देशविशेषनियमस्यापि चित्तैकाग्न्यसिध्यर्थत्वात् चित्तैकाग्न्यविरोधे सोऽपि नादर्तव्यः। ‘समेशुचौ शर्करावह्निवालुकाविवर्जिते’ इत्यविशेषेण एकाग्रतानुकूपदेशविशेषस्यैवांगत्वकीर्तनात् तेनैवचन्यायेन एकाग्रतानुकूलआसनस्यापेक्षितत्वमस्तीति अवसीयत इति॥ ॥इति आसीनाधिकरणम्॥