04 आदित्यादिमत्यधिकरणम्

॥आदित्यादिमतयश्वांगउपपत्तेः॥ ‘य एवासौ तपति तमुद्गीथमुपासीते’त्यत्र कर्मांगभूतउद्गीथे आदित्यदृष्टिः कर्तव्या, उतादित्ये उद्गीथदृष्टिरिति वेशये ‘ब्रह्मदृष्टिरुकर्षा’दिति सूत्रोक्तन्यायेनोत्कृष्टदृष्टेरेवापकृष्टे कर्तव्यत्वात् कर्मांगस्योद्गीथस्य कर्मोपकारकत्वेनोत्कृष्टतया तद्बुद्धिरेवादित्ये कर्तव्येति पूर्वपक्षे प्राप्ते उच्यते- आदित्यादिमतयश्चाङ्गउपपत्तेः। अत्र चशब्दोऽवधारणे। अंगएवादित्यादिमतयः कार्याः। कर्माराध्यतया आदित्यादीनामेवोत्कृष्टत्वस्योपपत्तेरिति॥ इति आदित्यादिमत्यधिकरणम्॥