॥न प्रतीके न हि सः॥ ‘मनोब्रह्मेत्युपासीते’ति प्रतीकोपासनस्यापि ब्रह्मोपासनत्वाविशेषात् ब्रह्मणश्च उपासितुरात्मत्वेन आत्मत्वेनैवोपासनं कार्यमिति पूर्वपक्षे प्राप्तउच्यते। न प्रतीकेन हि सः। मनोविशेष्यकब्रह्मविशेषणकोपासने ब्रह्मणः दृष्टिविशेषणत्वेन विशेष्यभूतमनसः" उपासकंप्रत्यात्मत्वासम्भवेन अब्रह्मणि मनसि ब्रह्मदृष्ट्यानुसन्धानमेवेदम्॥ ननु अत्रापि ब्रह्मण एवोपास्यत्वमस्तु अचेतनस्य अल्पशक्तेर्मन आदेरुपास्यत्वासम्भवात् मनसः दृष्टिविशेषणत्वमंगीकृत्य ब्रह्मणएवोपास्यत्वस्य न्याय्यत्वादित्यत्राह-॥ब्रह्मदृष्टिरुत्कर्षात्॥ मनआदिषु ब्रह्मदृष्टिरेव न्याय्या। उत्कृष्टेराज्ञिभृत्यदृष्टेरिव उत्कृष्टे ब्रह्मणि मन आदिदृष्टेरन्याय्यत्वात्। न च अचेतनानां कथमुपास्यत्वमिति वाच्यम्। मन आदिशब्दानामभिमानिदेवतावाचकत्वेन उपास्यत्वसंभवात्॥ ॥इति प्रतीकाधिकरणम्॥