02 आत्मत्वोपासनाधिकरणम्

॥आत्मेतितूपगच्छन्ति ग्राहयंतिच॥ ‘पृथगात्मानं प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वमेति’ति जीवेश्वरपृथक्त्वज्ञानस्यामृतत्वासाधनत्व श्रवणात् स्वात्मानंप्रत्यपृथक्सिद्धविशेष्यत्वलक्षणमात्मत्वं ब्रह्मणो नास्त्येव। अतएव ‘आत्मेत्येवोपासीते’तीति करणेन दृष्टिविधित्वं सूच्यते। तादृशी च दृष्टिर्न मोक्षार्थोपासनाविषया। ततश्च मोक्षोपासने तात्त्विकविषयत्व अवश्यम्भावेनातास्मिंस्तदारोपरूपदृष्टिविधेरयुक्तत्वात् पृथक्त्वेनैवानुसन्धानं कार्यं। नत्वपृथक्सिद्धवेशेष्यत्वरूपात्मत्वेनेति पूर्वपक्षे पठति- आत्मेतितूपगच्छन्ति ग्राहयन्तिचेति। ‘त्वं वा अहमस्मि भगवो देवतेअहं वै त्वमसि भगवोदेवते’ इति पूर्वोउपासितारः आत्मत्वेनोपगच्छंति उपासतइत्यर्थः। ‘य आत्मनि तिष्ठन्नि’त्यादिनि च शास्त्राणि प्रत्यगात्मापेक्षया आत्मतां ग्राहयन्ति। न च पृथक्त्वानुसन्धानस्य विरोधश्शंक्यः। किंचिज््ज्ञत्वसर्वज्ञत्वादिलक्षणभेदकाकारस्य पारमार्थिकत्वात् भेदरूपं पृथक्त्वमस्त्येव। नियमेनाधारत्वलक्षणम् अपृथक्सिद्धविशेष्यत्वरूपमात्मत्वमप्यस्त्येव। नहीदृशमात्मत्वं भेदविरोधि। अतः ‘आत्मेत्येवोपासीते’ति विधिवशादात्मत्वेनैवोपासनं कर्तव्यमिति स्थितम्॥ ॥इति आत्मत्वोपासनाधिकरणम्॥