॥आवृत्तिरसकृदुपदेशात्॥ ‘ब्रह्मविदाप्नोति पर’मित्यादिषु मोक्षसाधनं वेदनं सकृत्कृतमेव शास्त्रार्थः। ‘सयोहवै तत्परंब्रह्म वेद ब्रह्मैव भवती’ति ब्रह्मवेदनस्य परप्राप्त्युपायत्वश्रुतेः सकृत्कृतेऽपि वेदने शास्त्रार्थनिर्वृत्तेः" असकृदावृत्तौ ज्योतिष्टोमादेरिव फलभूम्नः कल्पनीयतया अपुनरावृत्तिलक्षणमोक्षरूपफलभेदस्याभावाच्चेति पूर्वःपक्षः। सिद्धान्तस्तु आवृत्तिरसकृदुपदेशात्। असकृदावृत्तं वेदनमित्यर्थः। ‘विद्यादुपासीते’ति विद्युपास्योरुपक्रमोपसंहारयोर्व्यतिकरेण उपदेशात् ‘ब्रह्मविदाप्नोति परं निदिध्यासितव्य’इति वेदनध्यानयोश्च व्यतिकरेण उपदेशात् वेदनध्यानोपासनादि शब्दानामभिन्नार्थत्वात् स्मृतिसंतानरूपध्यानात्मकवेदनस्य आवृत्तिमन्तरेण ध्यानरूपत्वानुपपत्तेः वेदान्तविहितस्य आप्रयाणादनुवर्तनीयस्य एकोपायत्वेन फलभेदकल्पनानुपपत्तेश्च असकृदावृत्तं वेदनमेव शास्त्रार्थः॥॥लिङ्गाच्च॥ लिंगं-स्मृतिः। स्मर्यते-मां ध्यायन्त उपासते। अव्यक्तं पर्युपासते। तद्रूपप्रत्ययेचैकासन्ततिश्चान्यनिस्पृहा- तद्ध्यानमित्यादिना। ॥इति आवृत्त्यधिकरणम्॥