55 मुक्तिफलाधिकरणम्

॥एवंमुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः॥ यक्षानुरूपो बलिरिति न्यायेन बलवत्कर्मसाध्यानां मुक्तिफलकब्रह्मोपासनानां प्रबलकर्मान्तर प्रतिबन्धासम्भवात् नियतैहिकत्वमेवेति पूर्वपक्षः। सिद्धान्तस्तु मुक्तिफलकविद्यानामपि ऐहिकत्वनियमो नास्ति, अप्रस्तुतप्रतिबन्धत्वरूपावस्थाया अविशेषेण तत्राप्यवधृतत्वात्। तत्रापि प्रबलानां ब्रह्मविदपचारादिप्रतिबन्धकानां सम्भवात्। द्विरुक्तिरध्यायपरिसमाप्त्यर्था॥ ॥इति मुक्तिफलाधिकरणम्॥