54 ऐहिकाधिकरणम्

॥ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात्॥ मुक्तिव्यतिरिक्तफलकोपासनानामुद्गीथविद्यारहितयज्ञादि कर्मनिष्पाद्यानामपि यज्ञादिरूपसाधननिष्पत्तौ सत्यां विळंबे हेत्वभावात् इह जन्मन्येव निष्पत्तिरिति पूर्वपक्षः- सिद्धान्तस्तु- मुक्तिव्यतिरिक्तफलकमुपासनं अप्रस्तुतप्रतिबन्धे प्रतिबन्धाभावे ऐहिकं इहैव जन्मनि सम्भवति। सति प्रतिबन्धे जन्मान्तरे। न च प्रतिबन्धासम्भवश्शङ्कनीयः। ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवती’ति उद्गीथविद्यायाः प्रबलकर्मान्तराप्रतिबद्धफलत्वावेदनेन प्रबलकर्मान्तरप्रतिबन्धस्यानुज्ञातत्वात्। न च ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ती’ति यज्ञादेर्वेदनसाधनत्वश्रवणात् कारीर्यभिचारादिवत् नियतैहिकत्वमेव किं न स्यादिति वाच्यम्। शुष्यच्छालिसम्पत्तिवैरिविशेषविपत्तिफलकत्वेन विहितानां" तेषां नियतैहिकत्वेऽपि विद्यासाधनयज्ञादिकर्मणां तज्जन्मनि विद्योद्देशेन अविहिततया पश्वादिफलकचित्रेष्ट्यादिवत् नियतैहिकत्वाभावात् पूर्वतन्त्रे चतुर्थाध्याये योगसिध्यधिकरणे तथा निर्णीतत्वादिति॥ ॥इति ऐहिकाधिकरणम्॥