53 अनाविष्काराधिकरणम्

॥अनाविष्कुर्वन्नन्वयात्॥ ‘बाल्येन तिष्ठासे’दित्यत्र बाल्यशब्दस्य भावकर्मसाधारणत्वेऽपि वयोविशेषलक्षणवालभावस्य इच्छया सम्पादितुमशक्यत्वेनाविधेयत्वात् कर्मैव विधेयम्। तत्र कामचारकामवादकामभक्षत्वादिकं यद्बालस्य कर्म, यच्च डम्भादिराहित्यलक्षणं स्वमाहात्म्यानाविष्करणरूपं कर्म तत्सर्वं बाल्यशब्देन विधेयं, अविशेषात्। न च निषिद्धस्य कामचारादेर्विधानमयुक्तमिति वाच्यम्। वामदेव्योपासनांगतया प्रार्थयमानसर्वयोषिदपहारलक्षणनिषिद्धकर्म विधानवद्विद्यांगतया निषिद्धस्यापि कामचारादेर्विधानसम्भवादिति पूर्वपक्षे प्राप्ते उच्यते- अनाविष्कुर्वन्नन्वयात्। स्वमाहात्म्यमनाविष्कुर्वन्नेव विद्वान्वर्तेत स्वमाहात्म्यानाविष्करणलक्षण बाल्यस्यैव विद्यायामन्वयसम्भवात्। ‘नाविरतो दुश्चरितान्नाशान्तो नासमाहितः। नाशान्तमानसोवाऽपि प्रज्ञानेनैनमाप्नुया’दिति विशिष्य विद्यायामपि प्रतिषिद्धस्य कामचारादेर्विद्यांगतयाऽन्वयासम्भवात्॥ ॥इति अनाविष्काराधिकरणम्॥