52 सहकार्यन्तराधिकरणम्

॥सहकार्यंतरविधिः पक्षेणतृतीयं तद्वतोविध्यादिवत्॥ ‘तस्माद्ब्राह्मणः पाण़्डित्यं निर्विद्य तिष्टासेद्बाल्यञ्च निर्विद्याथ मुनि’रित्यत्र मुनिशब्देन पाण्डित्यशब्दविहितं ज्ञानमेवानूद्यते, न ततोऽर्थान्तरं ज्ञानं विधीयते, प्रमाणाभावादिति पूर्वपक्षे प्राप्त उच्यते- सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्। विधीयत इति कर्मसाधनो विधिशब्दः। सहकार्यन्तरञ्च तद्विधिश्च सहकार्यन्तरविधिः। तद्वतः विद्यावतस्तृतीयं बाल्यपांडित्यापेक्षया तृतीयं मौनं" विद्यायास्सहकार्यन्तरं विधीयत इत्यर्थः। न च मुनिशब्दार्थस्य पाण्डित्यशब्देनैव प्राप्तत्वाद्विधेयत्वानुपपत्तिरिति वाच्यम्। पक्षेण प्रकृष्टमननशीले व्यासादौ मुनिशब्दप्रयोगात् प्रकृष्टं मननमेव मुनिशब्दार्थः। तच्च पांडित्यशब्दितादौपदेशिकार्थाधिगमात्, श्रवणप्रतिष्ठार्थान्मननाच्च, अर्थान्तरभूतमालम्बनसंशीलनात्मकमिति तस्याप्राप्तत्वेन विधानार्हत्वाद्विधेयत्वं युज्यते। पक्षः परिग्रहः। ‘पक्षपरिग्रह’ इति धातुः। आदर इति यावत्। तत्कृतप्रकर्षयुक्तं मननं मौनम्। तदेव मुनिशब्देन विधीयते। सादरमनन मालम्बनसंशीलनं" विधीयत इत्यर्थः। विध्यादिवत्। अत्रापि विधिशब्धः कर्मसाधनः। विधिश्चासावादिश्चेति समासः। विधेयादिवदित्यर्थः। प्रस्तुतमननापेक्षया आदिर्यो वेधेयः प्राक्तनोबिधेयः पाण्डित्यबाल्यलक्षणः। ततश्चायमर्थः। विद्याङ्गतया यथा बाल्यपाण्डित्ये विधीयते, एवमेव मुनिशब्देनापि आलंबनसंशीलनलक्षणं सादरं मननं सहकारि विधीयतइत्यर्थः। यद्वा विध्यादिवदित्यत्र विधिशब्देन विधेयं यज्ञदानाद्युच्यते। आदिपदग्राह्यं रागप्राप्तं श्रवणं" मननञ्च। सहकार्यन्तरविधिरित्यत्र च सहकार्यन्तरेपि पृथक्पदं लुप्तविभक्तिकम्। ततश्चायमर्थः। तृतीयं मौनं" यत् तद्यजनश्रवणमननवत् बाल्यपाण्डित्यापेक्षया सहकार्यन्तरं सत् अर्थान्तरं सद्विध्यर्हमित्यर्थः। पांडित्याभिन्नत्वेह्यनुवाद्यता स्यादित्यर्थः। ननु बाल्यपाण्डित्यमौनशमादिनानाश्रमधर्मभूतयज्ञाद्यङ्गिकाया विद्यायास्सर्वेष्वाश्रमेषु सम्भवात्, छान्दोग्ये ‘अभिसमावृत्य कुटुम्बे शुचौदेश’ इत्यारभ्य ‘सखल्वेवं" वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तत’ इति गार्हस्थ्यधर्मेणोपसंहारः कथमित्यत्राह॥॥कृत्स्नभावात्तु गृहिणोपसंहारः॥ तुशब्दः पक्षं व्यावर्तयति। कृत्स्नेस्वाश्रमेषु ब्रह्मविद्यायास्सद्भावात् छान्दोग्ये गृहस्थेनोपसंहारः" उपलक्षणार्थः। यथा छान्दोग्ये गृहस्थधर्मकीर्तनमितराश्रमधर्मोपलक्षणार्थं, एवं बृहदारण्यके- ‘भिक्षाचर्यं" चरन्ती’ति सन्यासिधर्मकीर्तनमाश्रमधर्मान्तरोपलक्षणार्थमित्याह॥॥मौनवदितेरषामप्युपदेशात्॥ अत्र मौनशब्देन मौनसमभिव्याहृतसन्न्यासिधर्मभूतभिक्षाचरणादिकं लक्ष्यते। मौनवत् सन्यासिधर्मवदितरोऽप्याश्रणधर्मो विद्याङ्गमित्यर्थः। इतरेषामप्याश्रमिणां ‘ब्रह्मसंस्थोऽमृतत्वमेती’ति ब्रह्मविद्याया मोक्षस्यचोपदेशादिति॥ ॥इति सहकार्यन्तरविध्यधिकरणम्॥