51 स्वाम्यधिकरणम्

॥स्वामितः फलश्रुतेरित्यात्रेयः॥ ऋत्विक्परिक्रयस्याङ्गानुष्ठानमात्रार्थत्वादङ्गावबद्धोपासननाञ्च ‘तन्निर्धारणानियमस्तदृष्टेः" पृथग्ध्यप्रतिबन्धः फल’मिति सूत्रोक्तन्यायेनानङ्गत्वाच्छास्त्रफलं प्रयोक्तरीति न्यायेन यजमानगामिफलसाधनभूतोपासनस्य यजमानेनैव कर्तव्यत्वात्। ‘गोदोहनेन पशुकामस्य प्रणयेत्’इति श्रुतपश्वर्थगोदोहनादेरनङ्गत्वेऽपि ऋत्विक्कर्तृकप्रणयननिर्वर्तकस्य गोदोहनस्य यजमानेनोपादातुमशक्यतयर्त्विक्कर्तृकत्वेऽप्युद्गातृकर्तृकउद्गीथे यजमानस्योपासन सम्भवादुपासनं याजमानमेव। औद्गात्रसमाख्यानं तु शास्त्रफलं प्रयोक्तरीति न्यायेन विरोधादुपेक्षणीयम्। अतः फलस्य स्वामिगतत्वात्फलस्वामियजमानकर्तृकमेवोपासनमिति पूर्वपक्षे प्राप्ते उच्यते- सिद्धान्तस्तु॥॥आर्त्विज्यमित्यौड़ुलोमिस्तस्मै हि परिक्रीयते॥ उपासनान्यपि ऋग्विक्कर्माण्येव स्युः। प्रयोगाङ्गस्यर्त्विजः प्रयोगांतः पात्युद्गीथाद्युपासनेऽपि कर्तृत्वसम्भवात्। ‘तगँहबको दाल्भ्योविदांचकार सह नैमिषीयाणामुद्गातबभूव सहस्मैभ्यः कामानागायति’ इत्युद्गातृदाल्भ्यगतविद्याया यजमानकामसम्पादकत्वदर्शनलिंगाच्चर्त्विक्कर्तृकमेवोपासनम्। न चर्त्विंक्कर्तृकोपासनस्य फलमृत्विग्गतमेव स्यादिति शक्यशङ्कम्। ऋग्विजां परार्थतया तेषां वचनमन्तरेण फलसम्बन्धानुपपत्तेः। ‘यां वै कांचन यज्ञऋत्विज आशिषमाशासते यजमानायैवैतामाशिषमाशासते’ इति श्रुतेश्च ‘तस्मादुहेवंविदुद्गाता ब्रूयात् कंते काममागायानीति’इति ऋग्विग्गतविज्ञानस्य यजमानगामिफलकत्वावेदनलिंगाच्च न शास्त्रफलं" प्रयोक्तरीति न्यायावतारः। ततश्च परिक्रयविधिबलादुत्सृष्टस्यर्त्विक्कर्तृकस्य याजमानसमाख्यापादकाभावाल्लिंगानुग्रहादौद्गात्र समाख्यानाच्चार्त्विज्यमेवोपासनमिति॥ ॥इति स्वाम्यधिकरणम्॥