॥तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः॥ नैष्ठिकवैखानसपरिव्राजकानां स्वाश्रमेभ्यः प्रच्युतानामपि विधुरादिवत् जपादिभिः विद्यानुग्रहसम्भवात् अस्त्यधिकारइति पूर्वपक्षे प्राप्तउच्यते- तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः। तुशब्दः पक्षव्यावृत्त्यर्थः। तद्भूतस्य नैष्ठिकादिभूतस्य अतथाभावः प्रच्युत्य स्थितिः न सम्भवत्येव। कुतः-तद्रूपनिवृत्तिभ्यश्शास्त्रैर्नियमात्। नियच्छंति हि शास्त्राणि ‘अत्यन्तमाचार्यकुलेऽवसादय’न्निति नैष्ठिकब्रह्मचारिणं, अरण्यमियात्ततो न पुनरेयादिति वैखानसं, ‘सन्यस्याग्निं न पुनरावर्तये’दिति सन्यासिनञ्च। अतस्तेषां प्रचुत्य स्थित्यभावात् विद्यानधिकारः। जैमिनेरप्यविगीतोऽयम्॥॥नचाधिकारिकमपि पतनानुमानात्तदयोगात्॥ आधिकारिकं ‘अवकीर्णी पशुश्च तद्व’दित्यधिकारलक्षणोक्तं प्रायश्चित्तमपि नैष्ठिकस्य न सम्भवति। प्रच्युतनैष्ठिकादीनां पतनस्मतेः प्रायश्चित्तासम्भवात्। तेषां पतनञ्च ‘आरुढो नैष्ठिकं धर्मं यस्तु प्रच्यवतेद्विजः। प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महे’ति प्रायश्चित्ताभाववचनेन स्मर्यते। अवकीर्णप्रायश्चित्तं उपकुर्वाणब्रह्मचारिविषयम्॥।उपपूर्वमपीत्येके भावमशनवत्तदुक्तम्॥ उपपातकत्वात् मध्वशननिषेधतत्प्रायश्चित्तवत् आधिकारिकसद्भावं मन्यन्ते॥ तदुक्तं स्मृतिकारैः- ‘उत्तरेषाञ्चैतदविरोधी’ति। गुरुकुलवासिनः विहिता धर्माः प्रायश्चित्तञ्च स्वाश्रमाविरोधीनि उत्तरेषामाश्रमिणां" सम्भवन्तीत्यर्थः। ब्रह्मचर्यभ्रंशे प्रायश्चित्तसम्भवात् ब्रह्मविद्याधिकारस्सम्भवत्येव॥॥बहिस्तूभयथाऽपि स्मृतेराचाराच्च॥ उभयथापि उपपातकत्वे महापातकत्वेवा ब्रह्मविद्याधिकारिभ्यो बहिष्कृता एवैते- ‘प्रायश्चित्तं न पश्यामि येन शुध्थेत्स आत्महे’ति स्मृतेः। शिष्टबहिष्काराच्च। यद्यपि कल्मषनिर्हरणाय कैश्चिद्वचनैः प्रायश्चित्ताधिकारप्रतिपादनेऽपि कर्माधिकारापादिनी शुद्धिस्तेषां न सम्भवतीत्येवाभिप्रायः। अतएव तेषां ब्रह्मविद्याधिकाराभावः॥ ॥इति तद्भूताधिकरणम्॥