॥अन्तराचापि तु तद्दृष्टेः॥ अनाश्रमिणां विधुरादीनामाश्रमधर्माभावात्तदंगिका विद्या न सम्भवतीति पूर्वपक्षे प्राप्तउच्यते- अन्तराचापि तु तद्दृष्टेः। तुशब्दः पक्षव्यावर्तकः। चशब्दोऽवधारणे। आश्रमानन्तरावर्तमानानां अनाश्रमिणामिति यावत्। तेषामपि विद्यायामधिकारोऽस्त्येव। तादृशानामपि भीष्मरैक्वसंवर्तादीनां ब्रह्मविद्यादर्शनात्, ‘यज्ञेन दानेन तपसाऽनाशकेने’ति आश्रमानियतदानतपआदिभिरपि विद्यानुग्रहस्य श्रुतत्वात्॥॥अपि स्मर्यते॥ ‘जप्येनापि च संसिध्येत् ब्राह्मणो नात्र संशयः’ इति हि स्मर्यते। संसिध्येत्–जपाद्यनुगृहीतया विद्यया सिद्धोभवतीत्यर्थः॥॥विशेषानुग्रहश्च॥ ‘तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ती’ति आश्रमानियततप आदिधर्मविशेषैरनुग्रहः श्रूयते॥॥अतस्त्वितरज्ज्यायो लिंगाच्च॥ तुशब्दोऽवधारणे। अतः अनाश्रमित्वादितरत् आश्रमित्वमेव ज्यायः। अनाश्रमित्वमापद्विषयम्। शक्तस्यत्वाश्रमित्वमेवोपादेयम्। भूयोधर्मकाल्पधर्मकयोरतुल्यकारित्वात्। ‘लिंगाच्च’। लिंगं इति स्मृतिः। स्मर्यते हि ‘अनाश्रमीनतिष्ठेत्तु दिनमेकमपि द्विज’ इति। असति वैराग्ये दारालाभ आपत्। सति वैराग्ये सन्यासस्वीकार सम्भवात्। नचाविरक्तस्य ब्रह्मविद्याधिकारः कथमुच्यत इति शंक्यम्। अग्निहोत्राद्यनुतिष्ठासया दारपरिग्रहरागसम्भवेऽपि दारादिषु भोग्यतातिशयबुद्धिकृतरागाभावेन ब्रह्मविद्याधिकारसम्भवात्, देहान्तरोपभोग्यब्रह्मव्यतिरिक्तफलाशाभावेन मुमुक्षौपयिकवैराग्यसम्भवाच्च। एवमेव व्यासार्यैरुक्तत्वाच्च न दोषः॥ ॥इति विधुराधिकरणम्॥