॥विहितत्वाच्चाश्रमकर्मापि॥ ‘यावज्जीवमग्निहोत्रं जुहोती’ति नित्यतया विहितानामग्निहोत्रादीनामनित्यकामनाविषयब्रह्मविद्यार्थत्वे नित्यानित्यसंयोगविरोधात् आश्रमकर्मापेक्षया विद्यार्थानि कर्माणि भिन्नानीति पूर्वपक्षे प्राप्ते यथैकस्यैव खदिरत्वस्य ‘खादिरो यूपो भवति, खादिरं वीर्यकामस्य यूपं कुर्या’दिति वचनद्वयेन क्रतौ फले च पृथग्विनियोगदर्शनात् क्रत्वर्थतया नित्यस्यापि खदिरत्वस्यानित्यकामनाविषयवीर्यार्थत्वाविरोधः, तद्वत् ‘यावज्जीवमग्निहोत्रं जुहोती’ति नित्यतयाऽग्निहोत्रादीनां विहितत्वादाश्रमकर्मत्वमप्यस्ति॥॥सहकारित्वेन च ॥ विविदिषावाक्येन विद्यासहकारितया विहितत्वाद्विद्यार्थत्वमप्यस्तीति स्थापितम्॥नन्विह यथा कुण्डपायिनामयने ‘मासमग्निहोत्रं जुहोती’ति श्रुतं मासाग्निहोत्रं नैयमिकाग्निहोत्राद्भिद्यते, तथा विविदिषावाक्येन विद्यार्थतया विधीयमानं नित्यादग्निहोत्रादेरन्यदेवास्तु तत्राह- ॥सर्वथाऽपि त एवोभयलिङ्गात्॥ विद्यार्थत्वे आश्रमार्थत्वेऽपि त एव यज्ञादयः प्रतिपत्तव्याः। उभयत्र यज्ञादिशब्दैः प्रत्यभिज्ञाप्यमानत्वरूपलिंगात्, ‘यज्ञेने’त्यादिशब्दैः प्रसिद्धयज्ञादिविलक्षणयज्ञादिविधाने तस्य द्रव्यदेवताद्यभावे अरूपत्वप्रसंगात्, तत्सद्भावे च देवतोद्देशेन द्रव्यत्यागत्वरूपयज्ञशब्दप्रवृत्तिनिमित्तेन यज्ञशब्दमुख्यार्थतया मासाग्निहोत्रवद्गौण्यावृत्त्या कर्मान्तरं विधीयत इति वक्तुमशक्यत्वात्, न तन्न्याय इह प्रवर्तते। अतः ‘यज्ञोऽध्ययनं दानमिति प्रथमः, यज्ञानां जपयज्ञोऽस्मि, भोक्तारं यज्ञतपसा’ मित्यादिष्विवप्रसिद्धयज्ञपरत्वमेव युक्तम्॥।अनभिभवं च दर्शयति॥ ‘धर्मेण पापमपनुदती’त्यादिश्रुतिश्च तानेव यज्ञादिधर्मान्निर्दिश्य तैर्विद्याया अनभिभवं पापकर्मभिरुत्पत्तिप्रतिबन्धाभावं" दर्शयति। ततश्च प्रसिद्धस्यैवाग्निहोत्रादेर्धर्मस्य विद्योत्पत्तिप्रतिबन्धक पापापनोदहेतुत्वात्तस्यैव विद्यांगत्वमिति स्थितम्॥ ॥इति विहितत्वाधिकरणम्॥