47 सर्वान्नानुमत्यधिकरणम्

॥सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्॥ ‘नह वा एवंविदि किञ्चनानन्नं भवती’ति छान्दोग्ये ‘नास्यानन्नं जग्धं भवती’ति वाजसनेयके च श्रवणाद्वामदेव्योपासनानिष्ठस्य प्रार्थयमानसर्वयोषिदपरिहारानुमतिवत् सर्वान्नानुमतिः प्राणविद्यानुष्ठस्य सर्वदा क्रियत इति पूर्वपक्षे प्राप्त उच्यते- सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्॥ प्राणात्यय एव प्राणविदस्सर्वान्नानुज्ञानं न सर्वदा। ब्रह्मविदोऽप्युषस्तेः प्राणात्यय एव इभ्योच्छिष्टाशनस्य दर्शनेन प्राणविदस्सर्वान्नानुमतेरापद्विषयत्वस्य किं पुनर्न्याय सिद्धत्वात्॥॥अबाधाच्च॥ ‘आहारशुद्धौ सत्त्वशुद्धि’रिति शास्त्राबाधार्थमप्येवमेव न्याय्यं, इतरथा तस्य बाधस्स्यात्॥॥अपिस्मर्यते॥ ‘प्राणसंशयमापन्नो योऽन्नमत्ति यतस्ततः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसे’ति स्मरणाच्च सर्वान्नीनत्वमापद्विषयम्॥॥शब्दश्चातोऽकामकारे॥ ‘तस्माद्ब्राह्मणस्सुरां न पिबति पाप्मना नोत्सृजा’इति संहितायां कामकारप्रतिषेधशब्ददर्शनात्। पाप्मना संस्पृष्टो नभवानीति मत्वा ब्राह्मणस्सुरां न पिबतीति हि तस्याश्श्रुतेरर्थः। ननु ब्रह्माविद उषस्तेः प्राणात्यये सर्वान्नीवत्वदर्शनात् प्राणविदस्सर्वान्नीनत्वस्यापद्विषयत्वं कैमुत्यन्यायेन सिध्यतीत्यनुपपन्नम्। वामदेव्योपासननिष्ठस्य सर्वयोषिदपरिहारवत् प्राणवद्यानिष्ठस्य वचनबलात् सर्वान्नीनत्वमिति वदन्तं प्रत्येतस्यानुत्तरत्वादितिचेन्न। वामदेव्योपासनस्य ‘न काञ्चन परिहरेत्तद्ब्रत’मिति सर्वयोषिदपरिहारेऽपि स्पष्टविधिश्रवणात्। प्रकृते च ‘न ह वा एवंविदि किंचनानन्नं भवती’त्यत्र सर्वान्नभक्षणविधेः कल्प्यत्वात्, प्रत्यक्षनिषेधविरोधे च विधिकल्पनानुदयेनार्थवादत्वस्यैव युक्तत्वात्, सर्वप्राण्यन्ने यत्किंचिदिदमाश्वस्य आशकुनिभ्य’ इति विहितस्य प्राणान्नत्वचिंतनस्य स्तुतिमात्रं क्रियते ‘नह वा एवंविदि किंचनानन्नं" भवती’ति। नचैवंसति निषेधशास्त्रविरोधात् ‘एवंविदि पापं कर्म न श्लिष्यत’इत्यादेरपि स्तुतिमात्रत्वप्रसङ्ग" इति वाच्यम्। पाप्मनामश्लेषाभावे अनिर्मोक्षप्रसङ्गेन सकलपापाश्लेषस्य मोक्षविधिशास्त्रापेक्षितत्त्वेन फलविधित्वस्य वक्तव्यत्वात्। प्राणविद्यायाश्च ज्येष्ठत्वश्रेष्ठत्वादिफलकत्वेन फलाकांक्षाया अभावादिति॥ ॥इति सर्वान्नानुमत्यधिकरणम्॥