गृहस्थस्य बाह्याभ्यन्तरकरणव्यापाररूपकर्मानुष्ठानस्यावश्यकत्वात्, शमादीनाञ्च तद्विपरीतत्वात् नानुष्ठेयत्वमिति प्राप्त उच्यते- ॥शमदमाद्युपेतस्स्यात्तथाऽपि तु तद्विधेस्तदंगतया तेषामवश्यानुष्ठेयत्वात्॥ तथाऽपि ग़ृहस्थस्य कर्मानुष्ठानावश्यकत्वेऽपि गृहस्थश्शमदमाद्युपेतस्स्यात्। ‘शान्तोदान्तउपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येदि’ति विद्यांगतया शमादीनां विधानात् अशान्तचित्तस्य चित्तविक्षेपेण विद्यानिष्पत्त्यसम्भवेन दृष्टार्थतया अनुष्ठेयत्वाच्च। न च कर्मणां शमादीनां च विरोधः, भिन्नविषयत्वात्। विहितेषु व्यापारः" इतरेषु तदुपरमरुपश्शम इति। न च करणव्यापाररूपकर्मसु वर्तमानस्य वासनानुवृत्त्या शमादिकं न सम्भवतीति वाच्यं। परमपुरुषाराधनरूपकर्मणां वासनोच्छेद एव हेतुत्वादिति स्थितम्॥ ॥इति शमदमाद्यधिकरणम्॥