॥सर्वापेक्षाचयज्ञादिश्रुतेरश्ववत्॥ यदि ब्रह्मविद्या यज्ञाद्यनपेक्षा तदा गृहस्थेष्वपि सा अग्निंघनाद्यनपेक्षैव। नच विविदिषावाक्यात् यज्ञादीनां तादर्थ्यप्रतीतिरिति वाच्यं। तेनैव वाक्येन यज्ञादीनां विविदिषार्थत्वोपलम्भेऽपि विद्यार्थत्वाप्रतीतेरिति पूर्वपक्षे प्राप्त उच्यते। सिद्धान्तस्तु-यथा गमनसाधनभूतोऽश्वः परिकरबन्धसापेक्षः तथा गृहस्थेषु विद्या यज्ञादिसर्वकर्मापेक्षैव ‘तमेतं वेदानुवचनेन ब्राह्मणाविविदिषन्ती’ति श्रुतेः। यथा ‘अश्वेन जिगमिषती’त्यादिसनन्तपदप्रयोगे प्रकृत्यर्थगमनसाधनत्वप्रतीतिदर्शनेन यज्ञेन विविदषन्तीत्यत्रापि यज्ञादौ वेदनसाधनत्वप्रतीतेः। यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमित्युत्सर्गः। तथाऽपि ‘अश्वेन जिगमिषती’त्यादिसनन्तपदप्रयोगस्थले प्रकृत्यर्थप्राधान्यस्यैव व्युत्पत्तिसिद्धत्वात् अत्रापि प्रकृत्यर्थभूतवेदनसाधनत्वमेव वेदानुवचनादीनां तृतीयया प्रतिपाद्यतइति द्रष्टव्यम्॥ ॥इति सर्वापेक्षाधिकरणम्॥