44 अग्नीन्धनाद्यधिकरणम्

॥अतएवचाग्नींधनाद्यनपेक्षा॥ ऊर्ध्वरेतसः यज्ञाद्यभावात् तदंगिकाविद्यानसंभवतीति पूर्वपक्षे प्राप्तउच्यते- अतएवचाग्नींधनाद्यनपेक्षा। एतमेव प्रव्राजिनोलोकमिच्छन्तः प्रव्रजन्ति, यदिच्छतोब्रह्मचर्यंचरन्ति, येचेमेरण्येश्रद्धांतपइत्युपासते’ इति वाक्यैः ऊर्ध्वरेतस्सुब्रह्मविद्यायाः प्रमाणप्रतिपन्नत्वात् तेषु ब्रह्मविद्या अग्न्याधानलक्षणाग्नीधनपूर्वकाग्निहोत्राद्यनपेक्षैव। ॥इति अग्नींधनाद्यधिकरणम्॥