॥पारिप्लवार्थाइति चेन्न विशेषितत्वात्॥ वाजसनेयके-‘अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतु’रित्याद्याख्यानानां ‘सर्वाण्याख्यानानि पारिप्लवेशंसंती’ति अश्वमेधगतपारिप्लवनामकशंसने विनियुक्तत्वात् पारिप्लवार्थान्याख्यानानि न तु विद्योपयोगीनीतिचेन्न। विशेषितत्वात्। न सर्वाण्याख्यानानि पारिप्लवार्थानि भवितुमर्हति। सर्वण्याख्यानानि पारिप्लवेशंसन्तीति विधाय ‘मनुर्वैवस्वतो राजे’त्यादिना केषां चिदाख्यानानामेव विशेषितत्वात् वाक्यशेषपठितानामेव आख्यानानां" पारिप्लवे विनियोगः। न सर्वेषां। अतो विद्यासन्निधिपाठितानां याज्ञवल्क्याद्याख्यानानां तत्तद्विद्यागतपरमात्मविषयत्वादिविशेषप्रतिपादनोपयुक्तत्वमेव॥।तथाचैकवाक्योपबन्धात्॥ यथा ‘तेजोवै धृतं, साऽरोदी’दित्येवमादीनां ‘अक्ताश्शर्करा उपदधाति, तस्माद्बर्हिषि न देय’ मित्यादिविधिनिषेधैकवाक्यतया विधिनिषेधस्तुतिनिंदाद्युपयोगित्वं, तथैव ‘आत्मावा अरे द्रष्टव्य’इति विधिना आख्यानानामेकवाक्यतोपबन्धात् विधेयविद्याविशेषोपयोगित्वमवश्याभ्युपगन्तव्यमिति भावः। ननु ‘आत्मावाअर’ इति वाक्ये द्रष्टव्य इति न विधिः। स्वाध्यायस्य अर्थपरत्वेन अधीतवेदः पुरुषः प्रयोजनवदर्थदर्शनात् तन्निर्णयाय स्वयमेव गुरुमुखात् न्याययुक्तार्थग्रहणलक्षणे श्रवणे प्रवर्ततइति श्रवणस्य प्राप्तत्वात् अनुवादः। स्वात्मनि एवमेवेति श्रुतार्थप्रतिष्ठापनलक्षणमननस्य श्रवणप्रतिष्ठार्थत्वेन प्राप्तत्वात् मन्तव्यइतिचानुवादः। निदिध्यासनस्य स्मृतिरूपतया श्रुतार्थविषयत्वात् निदिध्यासितव्य इति चानुवादः। अतो विध्यसम्भवात् न विध्येकतापन्नानि आख्यानानीति चेन्न। ‘क्षीयन्तेचास्य कर्माणि तस्मिन्दृष्टे परावर’इति दर्शनस्यापि मोक्षाव्यवहितसाधनत्वश्रवणात् दृशिधातुना दर्शनसमानाकारकविशदं ज्ञानमभिधीयते। तथा ‘स्मृतिलम्भे सर्वग्रंथीनां विप्रमोक्ष’इति ध्यानस्य मोक्षाव्यवहितकारणत्वश्रवणात् ध्यानमपि विधीयते। अत उभयोरेकार्थत्वस्य वक्तव्यत्वात् द्रष्टव्यो निदिध्यासितव्य इत्याभ्यां दर्शनसमानाकारत्वविशिष्टं ध्यानं विधीयते। ‘आर्षेयं वृणीते त्रीन् वृणीत’इत्याभ्यां त्रित्वविशिष्टार्षेयवरणविधानवदिति द्रष्टव्यम्। न च निदिध्यासनस्य स्मृतिरूपतया प्राप्तत्वं शक्यम्। ‘निदिध्यासितव्य’इति अनवरत भावनारूपस्य ध्यानस्य विधानात् अनवरतभावनारूपत्वस्य अप्राप्तत्वात्। न च सन््श्रुतिवैयर्थ्यं, उपायदशाप्रभृतिभगवद्ध्यानस्य अनुकूलत्वसूचनाय सनन्तपदेन निर्देशसम्भवात्। अतो ‘नवा अर’इति वाक्यस्य विधायकत्वसम्भवात् विध्येकवाक्यतापन्नानि विधेयविद्याविशेषोपयोगीन्येवेति सर्वं सुस्थं। ॥इति पारिप्लवार्थाधिकरणम्॥