42 स्तुतिमात्राधिकरणम्

॥स्तुतिमात्रमुपादानादितिचेन्नापूर्वत्वात्॥ ‘स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथ’ इति वाक्यानि क्रत्ववयवोद्गीथादिस्तुति मात्रपराणिवा उद्गीथादिषु रसतमत्वादिदृष्टिविधायकानिवेति चिंतायां क्रत्वङ्गभूतोद्गीथादिग्रहणपूर्वकं रसतमत्वकथनात् ‘इयमेव जुहूः स्वर्गो लोकआहवनीय’इत्यत्र जुह्वादीनां पृथिव्यादित्वप्रतिपादकस्य स्तुतिपरत्ववत् ‘स एष रसानां रसतम’ इति वाक्यस्यापि स्तुतिमात्रपरत्वमिति चेन्न। अपूर्वत्वात्। अप्राप्तत्वात्। उद्गीथादीनां रसतमत्वस्य प्रमाणान्तराप्राप्तत्वेन विधेयत्वेन तत्प्राशस्त्यबुद्धिजननार्थं अनुवादासम्भवात् उद्गीथादिषु क्रतुवीर्यवत्तरत्वरूपफलविशेषसिध्यर्थं रसतमत्वादिदृष्टिविधानस्यैव उचितत्वात्। ‘इययेव जुहू’रित्यत्र कर्मविधिप्रकरणसान्निध्यात् ‘सम्भवत्येकवाक्यत्व’इति न्यायेन तदेकवाक्यत्वस्यैव उचितत्वेन स्तुतिरूपत्वसम्भवेऽपि उद्गीथविधेः भिन्नप्रकरणस्थत्वेन एकवाक्यत्वासम्भवात् रसतमादिवाक्यस्य दृष्टिविधिपरत्वमेव उचितमिति॥॥भावशब्दाच्च॥ ‘उपासीते’त्यादि उपासनविधायकविधिप्रत्यययुक्तक्रियाशब्दसत्वाच्च उपासनविधिपरत्वमेव न्याय्यम्॥ ॥इति स्तुतिमात्राधिकरणम्॥