॥पुरुषार्थोऽतश्शब्दादिति बादरायणः॥ गुणोपसंहारानुपसंहारसिद्धिहेतुभूता विद्यैकत्वनानात्वचिंता कृता। इदानीं कर्माङ्गिकया विद्यया पुरुषार्थोवा, विद्यांगकात्कर्मण इतिवेति चिन्तायां ‘ब्रह्मविदाप्नोति परं, तमेवं विद्वानमृतइहभवती’त्यादिश्रुतिभिः" विद्ययैव पुरुषार्थ इति बादरायण आचार्यो मन्यते॥अथ पूर्वपक्षिमतम्- ॥शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः॥ विद्यायाः कर्मसु कर्तृभूतात्मस्वरूपयाथात्म्यविषयकत्वेन कर्तृसंस्कारद्वारा क्रतुशेषत्वात् तत्र फलाश्रवणमर्थवाद एव, यथा द्रव्यगुणकर्मसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादस्स्यादिति पूर्वकाण्डोक्त अधिकरणन्यायेन अन्येषु द्रव्यादिषु फलश्रवणस्यार्थवादत्वं तथाऽत्रापि वक्तुं युक्तम्॥॥आचारदर्शनात्॥ जनकादीनां ब्रह्मविदग्रेसराणां ‘कर्मणैव हि संसिद्धिमास्थिता’ इति कर्मस्वेव प्राधान्येनानुष्ठानदर्शनात् विद्यैव कर्माङ्गम्॥।तच्छ्रुतेः॥ ‘यदेव विद्यया करोती’ति विद्यासामान्यस्य तृतीयाश्रुत्या कर्माङ्गत्वबोधनात् विद्याकर्माङ्गम्। नहि प्रकरणादुद्गीथमात्रविषयत्वं वक्तुं शक्यम्। प्रकरणापेक्षया प्रबलयाश्रुत्या विद्यासामान्याङ्गत्वबोधनात्॥॥समन्वारम्भणात्॥ ‘तं विद्याकर्मणी समन्वारभेते’इति विद्याकर्मणोस्साहित्यमेकस्मिन्नधिकारिणि विद्यायाः कर्माङ्गत्वसम्भव एव उपपन्नं भवेत्। न च वैपरीत्यं किं न स्यादिति वाच्यम्। पूर्वोक्तेन कर्तुरात्मनः कर्मशेषत्वप्रतिपादनादिना विद्यायाः कर्माङ्गत्वसिद्धेः॥॥तद्वतोविधानात्॥ ‘वेदमधीत्ये’ति अध्ययनवतः कर्मविधानात् अध्ययनस्य अर्थज्ञानपर्यंतत्वेन अनुष्ठेयज्ञानस्य अनुष्ठानाङ्गत्वेन विद्यायाः कर्माङ्गत्वसिद्धिरिति॥।नियमात्॥ ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा’इति श्रुत्या कृत्स्नस्य पुरुषायुषः कर्मस्येव विनियोगेन कर्मशेषत्वात् कर्मण एव प्राधान्यं। अन्येषां तु तच्छेषत्वमिति विद्यायाः कर्मशेषत्वसिद्धिः। एवंप्राप्ते सिद्धान्तः-॥अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्॥ विद्ययैव पुरषार्थः। कर्मकर्तृजीवापेक्षया अनन्तकल्याणगुणाकरत्वेन विलक्षणस्य परब्रह्मण उपास्यत्वोपदेशात्। ‘अपहतपाप्मा विजरो विमृत्युर्विशोक’ इत्यादिवेदनोपदेशवाक्येषु अविद्यादिहेयसम्बन्धयोग्य जीवापेक्षया विलक्षणस्य परब्रह्मण उपास्यत्वदर्शनात्, तादृशपरब्रह्मविषयिण्या विद्ययैव निरतिशयपुरुषार्थसिद्धिरिति॥॥तुल्यं तु दर्शनम्॥ ब्रह्मविदां कर्मानुष्ठानवदननुष्ठानस्यापि ‘किमर्थावयं यक्ष्यामह’ इत्यादिषु दर्शनात् कर्मणो विद्यापेक्षयाऽङ्गित्वे अंगिलोपस्यान्याय्यत्वेन कदाचिदप्यननुष्ठानस्यान्याय्यत्वात् कर्मणां" विद्यांगत्वमेव न्याय्यम्। न च एकस्मिन्नधिकरिणि कर्मणां त्यागानुष्ठाने कथं सम्भवतइति वाच्यम्। फलाभिसन्धिराहित्यसाहित्याभ्याम् अनुष्ठानाननुष्ठानोपपत्तेरिति॥॥असार्वत्रिकी॥ ‘यदेव विद्यया करोती’ति सामान्यतः यच्छब्देनानूदितस्य विद्यया क्रियमाणत्वे प्रापकप्रमाणाकांक्षायां" प्रकरणात्सन्निहितस्योद्गीथस्यैव उपस्थितत्वेन तादृशोद्गीथविद्यामात्रविषयत्वमेव तादृशश्रुतेर्न्याय्यमिति॥॥विभागश्शतवत्॥ ‘तं विद्याकर्णी समन्वारभेते’ इत्यत्र विभिन्नफलयोः विद्याकर्मणोः एकाधिकारिणं प्रति साहित्यस्य क्षेत्ररत्नविक्रयीणं शतद्वयमन्वेतीत्यत्र क्षेत्रार्थं शतं रत्नार्थं शतमितिवत् उपपन्नत्वात् नांगांगिसाहित्यमिति भावः॥॥अध्ययनमात्रवतः॥ ‘वेदमधीत्ये’ति अध्ययनमात्रवतो विधानात् अध्ययनविधेः अक्षरराशिग्रहणमात्रपर्यवसन्नत्वेन फलसाधनकर्मप्रतिपादकत्वात्स्वाध्यायस्य तन्निर्णयफलकविचारे पुरुषस्य स्वतएव प्रवृत्तेः कर्मज्ञानापेक्षिणः कर्मविचारे मोक्षार्थिनः ब्रह्मविचारे प्रवृत्तिरिति न विद्या कर्माङ्गम्॥ अध्ययनविधेरर्थज्ञानपर्यन्तत्वेऽपि शास्त्रजन्यज्ञानापेक्षया उपासनात्मकज्ञानस्य भिन्नत्वात् शास्त्रजन्यब्रह्मस्वरूज्ञानस्य कर्माङ्गत्वप्रसक्तिरेव नास्ति अतो न विद्या कर्माङ्गम्॥॥नाविशेषात्॥ ‘कुर्वन्नेवेह कर्माणी’ति आत्मविदः यावज्जीवं कर्मानुष्ठानविधानात् विद्या स्वतन्त्रफसाधनभूतकर्माङ्गमिति न युक्तम्, पूर्वोक्तश्रुतेः विद्याङ्गकर्मविषयत्वेनाप्युपपत्तेः। ‘कर्मणैव हि संसिद्धि’मिति वाक्यस्य अङ्गिभूतोपासनस्य यावज्जीवमनुवर्तमानत्वेन अङ्गभूतकर्मणामपि यावज्जीवमनुष्ठानस्यावश्यकत्वेन विरोधाभावात्॥॥स्तुतयेऽनुमतिर्वा॥ ‘कुर्वन्नेवेह कर्माणी’ति वाक्यस्य ‘ईशावास्यमिदं सर्व’मिति विद्याप्रकरणात् विद्यामाहात्म्यात् सर्वदा कर्म कुर्वन्नपि कर्मजन्यफलाश्लेषइति विद्यास्तुत्यर्थं सर्वदा कर्मानुष्ठानानुमतिपरत्वात् न विद्या कर्माङ्गम्॥॥कामकारेणचैके॥ एकेशाखिनः ब्रह्मविद्यानिष्ठस्य इच्छया गार्हस्थ्यत्यागमधीयते। विद्यायाः कर्माङ्गत्वे अङ्गानुरोधेन अङ्गित्यागस्यानुपपन्नत्वात् विद्यायाः कर्माङ्गत्वं न सम्भवति॥॥उपमर्दं च॥ ‘भिद्यते हृदयग्रंथि’रित्यत्र ब्रह्मविद्यया पुण्यापुण्यरूपकर्मणां विनाशस्य प्रतिपादनात् कर्मविनाशिकायाः" विद्यायाः विनाश्यकर्माङ्गत्वासम्भवात् न विद्या कर्माङ्गम्॥।ऊर्ध्वरेतस्तु च शब्दे हि॥ ऊर्ध्वरेतस्स्वाश्रमेषु ब्रह्मविद्यादर्शनात् तेषां अग्निहोत्रादिकर्मभावात् विद्यायाः न कर्मांगत्वम्। न च ‘यावज्जीव’मिति श्रुत्या अग्निहोत्रादीनां यावज्जीवानुष्ठानप्रतिपादनात् ऊर्ध्वरेतस्सद्भावप्रतिपादकस्मृतेः" श्रुतिविरुद्धत्वेनाप्रमाणत्वात् तादृशाश्रमविशेषस्यैवासिद्धिरिति वाच्यम्। ‘एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ती’त्यादिश्रुत्या आश्रमविशेषप्रतिपादनात् यावज्जीवश्रुतेः तादृशाश्रमोपयुक्तवैराग्यशून्यपुरुषविषयत्वाच्च न विद्या कर्माङ्गम्॥।परामर्शं जैमिनिरचोदनाच्चापवदति हि॥ ‘त्रयोधर्मस्कन्धा’इत्यत्र नाश्रमान्तरविधानं, प्रकृतस्य प्रणवकरणकब्रह्मोपासनस्य स्तुत्यर्थमनुवादमात्रं। एवं ‘येचेमेऽरण्य’इत्यस्यापि देवयानविधिपरत्वेन आश्रमान्तरविधायकत्वाभावात् ‘वीरहावा एष देवानां" योऽग्निमुद्वासयत’इति ऊर्ध्वरेतोरूपाश्रमविशेषनिंदासत्वाच्च ऊर्ध्वरेतोरूपाश्रमाविशेषस्याभावं" जैमिनिराचार्यो मन्यते-॥अनुष्ठेयं बादरायणस्साम्यश्रुतेः॥ गृहस्थाश्रमवदाश्रमान्तरमप्यनुष्ठेयमितिबादरायण आचार्योंमन्यते। ‘त्रयोधर्मस्कंधा’इति ब्रह्मनिष्ठस्तुत्यर्थमनुवादः" गृहस्थाश्रमवदितराश्रमाणामपि समानः। अनुवादस्यप्रापकप्रमाणसापेक्षत्वमपि इतरेषां समानं। ‘त्रयोधर्मस्कंधाः" यज्ञोध्ययनंदानामिति प्रथमस्तपएवद्वितीयो ब्रह्मचार्याचार्यकुलवासीतृतीय’ इतिवाक्येन त्रित्वेनसंग्रहपूर्वकं प्रथमोद्वितीयस्तृतीय इतित्रेधाविभागान्यतानुपपत्त्यायज्ञोध्ययनंदानमिति, गृहस्थाश्रमस्य, तपश्शब्देन कायक्लेशवाचिना तुपःप्रधानयोः वैखानसपारिव्राज्ययोः, ब्रह्मचर्यशब्देन ब्रह्मचारिधर्मवाचकेन ब्रह्मचारिणश्च, ग्रहणस्य आवश्यकत्वेन आश्रमविशेषसद्भावस्य प्रामाणिकत्वात् ब्रह्मसंस्थशब्दस्य ब्रह्मणिसंस्थायस्येति व्युत्पत्त्यासर्वाश्रमिसाधारणत्वाच्च॥॥विधिर्वाधारणवत्॥ ‘उपरिहिदेवेभ्यो धारयती’त्यत्र अप्राप्तस्य उपरिधारणस्य अनुवादसजातियवाक्येन विधानवत् आश्रमांतरविधायकमेव त्रयोधर्मस्कंधाइति वाक्यमिति उर्ध्वरेतसांब्रह्मविद्याविधानात् विद्यायाः गृहस्थाश्रमधर्मांगत्वा भावेन पृथक् फलसाधनत्वेन विद्यातः पुरुषार्थसिद्धिरिति भावः॥ ॥इति पुरुषार्थाधिकरणम्॥