॥नानाशब्दादिभेदात्॥ नानाशाखागतानां मोक्षैकफलानां सद्विद्याभूमविद्यादीनां किमेकविद्यात्वं उतविद्याभेदइतिसंशये सर्वासुविद्यासु वेद्यस्य ब्रह्मणएकत्वेन रूपभेदाभावात् विद्यैक्यमिति पूर्वपक्षे प्राप्तउच्यते-विद्याः परस्परं" विभिन्नाएव पूर्वकांडोदितशब्दांतराभ्यासादिविधेयभेदापादकहेतुसद्भावात्। यद्यपि वेद उपासीतेत्यादि शब्दानां" पर्यायत्वेनाविच्छिन्नस्मृतिसंततिरूपैकार्थबोधकत्वात् तादृशस्मृतीनांच ब्रह्मैकविषयत्वं, तथापि तत्तद्विद्याप्रकरणप्रतिपादित जगदेककारणत्वापहतपाप्मत्वादि विभिन्न विशेषणविशिष्टब्रह्मविषयप्रत्ययावृत्ति बोधकत्वेन विद्यानां परस्परभेदस्यावश्याभ्युपयेत्वात्॥ ॥इति शब्दाभेदाधिकरणम्॥