35 शरीरे भावाधिकरणम्

॥एकआत्मनश्शरीरे भावात्॥ किं कर्तृत्वादिविशिष्टं प्रत्यगात्मनस्सांसारिकस्वरूपमनुसन्धेयम्। उत प्रजापतिवाक्योदितापहतपाप्मत्वादि लक्षणस्सांसारिकरूपव्यतिरेकएवानुसन्धेय इति विशये कर्तृत्वादिविशिष्टमेव रूपमनुसन्धेयम्। शरीरे वर्तमानस्योपासितुरात्मनस्तथाभावात् इति पूर्वपक्षे प्राप्त उच्यते-॥व्यतिरेकस्तद्भावभावित्वान्नतूपलब्धिवत्॥ प्रजापतिवाक्योदितापहतपाप्मत्वादिलक्षणस्सांसारिकस्वरूप एवानुसंधेयः। न तु कर्तृत्वादिविशिष्टस्वरूपमपि। कुतः? तथोपासने सत्येव तत्क्रतुन्यायेन तादृशात्मस्वरूपफलप्राप्तेर्भावित्वात्। ननु प्रजापतिविद्यायाः" प्रकरणाद्दहरविद्याशेषत्वेन विद्यान्तरशेषत्वे प्रमाणाभावइतिचेन्न। प्रजापतिवाक्योदितप्रत्यगात्म ब्रह्मविद्यायाः ब्रह्मप्राप्तिपूर्वकापहतपाप्मत्वादिगुणाष्टकविशिष्टस्वात्माविर्भावलक्षणमोक्षरूपफलस्य तत्क्रतुन्यायेन तादृशस्वात्मोपासनसाध्यत्वेन सर्वब्रह्मविद्यांगत्वसिद्धेः सर्वपरविद्यास्वपि प्रजापतिवाक्योदितापहतपाप्मत्वादिलक्षण सांसारिकरूपव्यतिरेकस्यैवानुसन्धेयत्वात्। नतूलब्धिवत्। यथा ब्रह्मस्वरूपोपलब्धिः यथावस्थितब्रह्मानुसन्धआनादेव, तथाऽऽत्मोपलब्धिरपि॥ यथा प्रकरणविशेषश्रुतानां" सत्यत्वज्ञानत्वादि स्वरूपनिरूपकधर्माणां ‘आनन्दादयः प्रधानस्येत्य’ धिकरणोक्तन्यायेन सर्वब्रह्मविद्यापेक्षितब्रह्मस्वरूपप्रतिपत्ति उपयोगितया सामर्थ्यरूपाल्लिंगात् प्रकरणभङ्गेन सर्वब्रह्मविद्यासाधारण्यमाश्रीयते, यथा वा ‘तमेतं" वेदानुवचनेन ब्राह्मणा विविदिषन्ती’ति विद्याविशेषप्रकरणश्रुतानां वेदानुवचनादीनां सर्वब्रह्मविद्यापेक्षितचित्तनैर्मल्योपयोगित्व लक्षणसामर्थ्यरूपलिंगवशेन सर्वविद्यासाधारण्यं, तथैव प्रजापतिवाक्योदितप्रत्यगात्मविद्याया अपि सर्वविद्यासाधारण्यं न्याय्यमिति॥ ॥इति शरीरेभावाधिकरणम्॥