॥अक्षरधियांत्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्॥ ‘एतद्वै तदक्षरं गार्गि ब्राह्मणाअभिवदन्त्यस्थूलमनण्वह्रस्व’ मित्यादिनिर्दिष्टाः अक्षरसंबंधिनः" अस्थूलत्वादयः प्रपञ्चप्रत्यनीकतारूपाः सर्वकर्मत्वसर्वकामत्वादिवत् सर्वासु परविद्यासु नोपसंहर्तव्याः। उपसंहारे प्रमाणाभावात्। न च स्वरूपनिरूपकाणां सत्यत्वज्ञानत्वादिधर्माणां सर्वपरविद्योपसंहारस्य ‘आनंदादयः प्रधानस्ये’ त्यधिकरणसिद्धत्वात्तद्वदेवास्थूलादिकं किन्नस्यादिति चेन्न। सत्यत्वादिकमन्तरेण ब्रह्मस्वरूपस्यैव प्रत्येतुमशक्यतया सत्यत्वादेस्सर्वविद्योपसंहारेऽप्यस्थूलत्वादीनामभावरूपाणां" ‘लब्धरूपे क्वचित्किञ्चित्तादृगेव निषिध्यत’इतिन्यायेन ब्रह्मप्रतीत्यनंतरभाविप्रतीतिकानां ब्रह्मस्वरूपप्रतीत्युपयोगित्वाभावेन सर्वपरविद्योपसंहारे प्रमाणाभावादिति प्राप्तउच्यते- अक्षरधियांत्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्॥ अक्षरब्रह्मसंबंधिनीनामस्थूलत्वादिधियां" सर्वासु परविद्यास्ववरोधः संग्रहणं कर्तव्यं। कुतः। सामान्यतद्भावाभ्यां सर्वेषूपासनेषूपास्यस्याक्षर ब्रह्मणस्समानत्वात्, अस्थूलत्वादीनां ब्रह्मप्रतिपत्तावन्तर्भावाच्चेत्यर्थः। यथा सत्यत्वादिकमंतरेण ब्रह्मस्वरूपं प्रतिपत्तुमशक्यम्, तथा अस्थूलत्वादिकमंतरेण जीवव्यावृत्तं ब्रह्मस्वरूपं सत्यज्ञानादिवाक्यैर्नप्रतिपत्तुं" शक्यम्। सत्यत्वादेः प्रत्यगात्मसाधारणत्वेन प्रत्यगात्मव्यावृत्तत्वाभावात्। स्थूलत्वादिभेदानर्हत्वन्तु नजीवसाधारणम्। ततश्चास्थूलत्वादीनां निषेधरूपतया सत्यादिवाक्यजन्यब्रह्मप्रतीत्युपजीवकत्वेऽपि स्वेतरसमस्तव्यावृत्त ब्रह्मस्वरूपप्रतीत्यर्थमस्थूलत्वादिकं सकलपरविद्योपसंहार्यमेव॥।इयदामननात्॥ आभिमुख्येन मननं आमननम्। ध्यानमितियावत्। आमननात् ध्यानाद्धेतोः। ध्यानार्थमियदेवापेक्षितं न सर्वकर्मत्वसर्वकामत्वादिकमपि। तेनविना़ऽपि इतरव्यावृत्तब्रह्मस्वरूपस्य प्रत्येतुं शक्यतया न सर्वकर्मत्वादेस्सर्वपरविद्योपसंहारः। अपितु यत्र प्रकरणे आम्नातं तत्रैव व्यवतिष्ठते। अस्थूलत्वादिकंतु सामर्थ्यरूपलिंगवशात्सर्वविद्यानुयायि। ॥इति अक्षराध्यधिकरणम्॥