॥फलमतउपपत्तेः॥ ऐहिकामुष्मिकं शास्त्रीयं फलं कर्मण एव स्यात्, तस्य फलसाधनत्वश्रवणादिति पूर्वपक्षे प्राप्तेऽभिधीयते- फलमतउपपत्तेः। कर्मभिराराधितादस्मादेव परमपुरुषात्फलं। सर्वज्ञस्य सर्वशक्तेः ब्रह्मणस्सेवाराधितराजवत्फलप्रदत्वोपपत्तेः॥॥श्रुतत्वाच्च॥ ‘सवा एष महानज आत्माऽन्नादो वसुदान’इति तस्यैव फलप्रदत्वस्य श्रुतत्वात्॥पूर्वपक्षमाह- ॥धर्मं जैमिनिरतएव॥ कर्मोपासनरूपाराधनात्प्रसन्नस्य परमपुरुषस्य फलदातृत्वे कर्मानुष्ठानानन्तरमेव प्रसादो वक्तुन्नशक्यते। परमस्वतन्त्रस्य प्रसादेसति फलविळम्बायोगात्, कीर्तनादिना फलजननाभावप्रसङ्गाच्च। भाविसंकीर्तनेन फलजननमनुसन्धाय हठात्प्रसीदतश्च असार्वज्ञ्यप्रसङ्गात्, प्रयाजानुष्ठानानन्तरमेव प्रधानानुष्ठाने अङ्गान्तरवैकल्येऽपि फलनिष्पत्तिप्रसङ्गात्, सर्वेश्वरप्रसादस्य वन्ध्यत्वायोगात्। तस्मात्कर्मभिरपूर्वे निष्पन्ने तस्य सङ्कीर्तनादिना नाशहेतुरहितस्य फलजननौन्मुख्ये सति परमपुरुषः प्रसीदतीति वक्तव्यम्। ततश्च अवश्याब्युपगतापूर्वेणैव नर्वाहे किमीश्वरद्वारप्रसादकल्पनया। न च ‘तृप्तएवैन’मित्यादिवाक्यशेषश्रुतदेवता प्रसादकल्पनमयुक्तमिति वाच्यम्। कृषिकर्मणि ‘साहाय्यं कृतवद्भिर्भवद्भिरेवेदं फलं दत्त’मिति प्रशंसावाक्यवत् तादृशवाक्यशेषस्य कर्माङ्गभूतदेवताप्रसादपरत्वोपपत्तेः। तस्मात् यागदानाख्यधर्ममेव जैमिनिः फलप्रदं मन्यते। अत एव उपपत्तेश्शास्त्राच्च कृष्यादीनां फलसाधनत्ववत् यागदानादीनां विनश्वराणामप्यपूर्वद्वारेण फलसाधनत्वोपपत्तेः" ‘यजेत स्वर्गकाम’इति विधिप्रत्ययेन प्रकृत्यर्थ यागस्यैव फलसाधनत्वश्रवणात्॥॥पूर्वंतु बादरायणो हेतुव्यपदेशात्॥ बादरायणस्त्वाचार्यः पूर्वोक्तमेव परमात्मनः फलप्रदत्वं मन्यते। हेतुव्यपदेशात् ‘यजदेवपूजाया’मिति प्रीतिहेतुत्ववाचिना पूजाशब्देन यागस्य देताप्रीतिहेतुत्वव्यपदेशात्, ‘स एवैनं भूतिं गमयती’त्यादि कर्मविधिशेषवाक्येषु कर्माराधितदेवताया एव यागादेः प्रीतिहेतुत्वावगमात् ‘अहं हि सर्वज्ञानां भोक्ता च प्रभुरेवचे’ति फलप्रदायित्वलक्षणप्रभुत्वस्य परमात्मन्येव स्मृतत्वात्, आशु विनश्यतः कर्मणो विधिवाक्यश्रुतकालान्तरभाविफलसाधनत्वनिर्वाहाय द्वारापेक्षायां वाक्यशेषप्रतिपन्नदेवताप्रीतिरूपद्वारपरित्यागेन आत्मसमवेतादृष्टरूपद्वारपरिकल्पनस्यानुचितत्वात्, कर्मप्रीतः परमात्मैव फलप्रद इति स्थितम्॥ ॥इति फलाधिकरणम्॥ इति चतुष्षष्टिप्रबंधनिर्माणसंसूचितसर्वतंत्रस्वतंत्रताबिरुदा़ञ्चितैः श्रीमद्रङ्ग" रामानुजमुनिभिरनुगृहीतायां श्रीशारीरकब्रह्मसूत्रव्याख्यानां" श्रीशारीरकशास्त्रार्थदीपिकायां तृतीयाध्यायस्य द्वितीयः पादः"