॥परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः॥ वेदान्ते जगत्कारणतया प्रतिपाद्यमानस्यात्मनः ‘अथ य आत्मा ससेतुर्विधृति’रिति सेतुत्वश्रवणात् सेतोश्च प्राप्यान्तरप्रापकात्वस्यैव दर्शनेन ब्रह्मणोऽपि प्राप्यान्तरप्रापकता प्रतीयते न तु स्वयंप्राप्यता। किञ्च ‘एतं सेतुं तीर्त्वे’ति तरितव्यत्वाभिधानेन एतस्य प्राप्यत्वाभावाविष्करणात् वेदान्तेषु ‘चतुष्पात् ब्रह्मषो़डशकल’मित्युन्मानश्रवणान्नेदमपरिमितं, अपरिमितस्योन्मानासम्भवात्। अतो वेदान्तेषु अपरिमितत्वेन प्रतीयमानमन्यदेवेति प्रतीयते। किंच, ‘अमृतस्य परं सेतु’मिति अमृतस्य वस्त्वन्तरस्य प्राप्यप्रापकत्वलक्षणस्सम्बन्धः षष्ठ्या प्रतीयते। नहि स्वस्मिन्नेव प्राप्यप्रापकत्वलक्षणस्सम्बन्धस्सम्भवति। किंच, ‘तेनेदं पूर्णं पुरुषेण सर्व’मिति प्रतिपादितपुरुषादपि ‘ततो यदुत्तरतर’मित्यादिभिरधिकस्य निर्देशात् परस्मादपि ब्रह्मणः परमन्यत् व्यपदिश्यते। अतएभ्यो हेतुभ्यः परस्मादपि ब्रह्मणोऽन्यत् परमभ्युपगन्तव्यमिति पूर्वपक्षे प्राप्त उच्यते-॥सामान्यात्तु॥ ‘यआत्मा स सेतु’रिति व्यपदेशः ‘एषां लोकानामसम्भेदाये’ति वाक्यशेषश्रुतासङ्करकारित्वलक्षणधर्मसामान्यनिबन्धनः। न तु प्राप्यान्तरप्रापकत्वलक्षणधर्मनिबन्धनः। ‘एतं सेतुं तीर्त्वे’त्यत्र तरतिश्च प्राप्तिवचनः" ‘वेदान्तं तरती’तिवन्नोल्लघनवचनः॥यदुक्तमुन्मानव्यपदेशादस्य परिमितत्वं प्रतीयत इति तत्राह- ॥बुद्ध्यर्थःपादवत्॥ यथा ‘मनोब्रह्मेत्युपासीतेत्यध्यात्मं तदेतच्चतुष्पाद्ब्रह्म वाक्पादःप्राणः पादश्चक्षुःपादः श्रोत्रं पाद इत्यध्यात्म’मित्यत्र ब्रह्मप्रतीकभूतमनआदौ वागादिपादत्वव्यपदेशोपदेश उपासनार्थः, न तु तात्विकः, मनसो वागादिपादत्वासम्भवात्, एवमपरिच्छिन्नस्य ब्रह्मणः ‘प्राचीदिक्कला प्रतीचीदिक्कला दक्षिणा दिक्कला उदीची दिक्कला एष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नामे’त्युक्तदिगादिलक्षण चतुष्कलपादसम्बन्धासम्भवादुपासनार्थ एव॥ननु स्वयमनुन्मितस्य कथमुपासनार्थतयाऽप्युन्मानप्रतीतिस्तत्राह- ॥स्थानविशेषात् प्रकाशादिवत्॥ यथा प्रकाशाकाशादेपरिच्छिन्नस्यापि वातायनाद्युपाधिवशेन परिच्छिन्नत्वानुसन्धानम्, एवं इहापि अभिव्यक्तिस्थानभूतप्रागाद्युपाधिवशेन उन्मितत्वानुसन्धानमुपपद्यते॥यदुक्तं ‘अमृतस्य परं सेतु’मिति सम्बन्धव्यपदेशेनामृताद्भेदोऽवगम्यत इति तत्राह- ॥तथाऽन्यप्रतिषेधात्॥ ‘यस्मात्परन्नापरमस्ती’ति पूर्ववाक्ये तदतिरिक्तोत्कृष्टवस्तुनो निषेधेन तद्विरुद्धतया ‘ततो यदुत्तरतर’मिति अनन्तरवाक्ये तदधिकवस्तूपक्षेपासम्भवात्ततो यदुत्तरतरमित्यत्र ततश्शब्दः पूर्वोपपादितस्य पुरुषपारम्यस्य उपसंहारपरः। न तु पूर्वप्रतिपादितपुरुषस्य प्रतिपिपादयिषितवस्त्वन्तरावधित्वप्रतिपादनपरः। यद्वा ‘तेनेदं पूर्ण’मिति पूर्ववाक्ये सर्वमिदमिति प्रथमान्तनिर्दिष्टतया प्रधानस्य जगतएव ‘ततो यदुत्तरतर’मिति तच्छब्देन ग्रहणं युक्तम्। यदुक्तं ‘परात्पर’मिति परभेदो व्यपदिश्यत इति तन्न ‘नह्येतस्मादिति नेत्यन्यत्परमस्तीति’ इति नेतिशब्दनिर्दिष्ठात् एतस्मात् ब्रह्मणोऽन्यत्परन्नास्तीत्यन्यस्य परस्य प्रतिषेधात्। ‘परात्परं पुरुष’मिति श्रुतिस्तु ‘अक्षरात्परतः पर’इति अक्षरापेक्षया परस्मात्समष्टि जीवात्परमदृश्यत्वादिगुणकं प्रकृतं भूतयोन्यक्षरपुरुषमेव प्रतिपादयतीत्यर्थः॥।अनेन सर्वगतत्वमायामशब्दादिभ्यः॥ अनेन ब्रह्मणा सर्वगतत्वं सर्वस्य जगतो व्याप्तत्वं आयामशब्दादिभ्योऽवगम्यते। आयामशब्दस्तावत् ‘तेनेदं पूर्णं पुरुषेण सर्वं, अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित’ इत्यादिः। आदिशब्देन ‘ब्रह्मैवेदं सर्व’मित्यादयो गृह्यन्ते। अतो न परब्रह्मणोऽन्यत्प्राप्यमस्तीति स्थितम्॥ ॥इति पराधिकरणम्॥