॥उभयव्यपदेशात्त्वहिकुंडलवत्॥ ‘द्वेवाव ब्रह्मणो रूपे’इत्यादिनोक्तमचिद्वस्तुनो ब्रह्मरूपत्वं किं ब्रह्म स्वरूपस्यैवाचिद्रूपेण परिणामाद्भवति, उत परस्मिन् ब्रह्मणि अचिद्वस्तुनि च एकजातियोगात् उत जीववद्ब्रह्मशरीरतया ब्रह्मविशेषणत्वेनेति संशयः। भिन्नाभिन्नत्वरूपोभयव्यपदेशोपपत्तये ब्रह्मैवाचिद्रूपेण परिणमतइति प्रथमः पक्षः। तथा सति ब्रह्मणो निर्दोषता बाध्यत इति एकजातियोगेनेति द्वितीयः पक्षः। एवं सति ‘आत्मैवेदंसर्वंब्रह्मैवेदंसर्व’मिति ब्रह्मस्वरूपस्यैव सर्वशब्दवाच्यत्वव्यपदेशबाधस्स्यात्। नह्येकैव गोव्यक्तिः खंहोगौरित्यादिसर्वगोव्यक्तिवाचिशब्दैरभिधीयते। अतो जीवस्येव ब्रह्मशरीरतया ब्रह्मविशेषणत्वेनाचिद्वस्तुनो ब्रह्मांशत्वमितिराद्धान्तः। सूत्रार्थः-तुशब्दोऽवधारणे। अहेःकुण्डलभावादिवत् ब्रह्मस्वरूपस्यैवाचिद्रूपेणावस्थानं नानात्वनैकत्वरूपोभयव्यपदेशात्॥॥प्रकाशाश्रयवद्वा तेजस्त्वात्॥ वाशब्दोऽनन्तरोक्तव्यावृत्त्यर्थः। यथा प्रकाशतदाश्रययोस्तेजस्त्वेनैकजातियोगादभिन्नत्वमेवमचित् ब्रह्मणोरपि॥॥पूर्ववद्वा॥ वाशब्दः पक्षद्वयव्यावृत्त्यर्थः। पूर्ववद्यथा ‘अंशो नानाव्यपदेशात्, प्रकाशादिवत्तु नैवं पर’ इत्युभयव्यपदेशोपपत्तये ब्रह्मणो निर्दोषत्वसिद्धये च प्रकाशजातिगुणशरीरवत् पृथक्सिध्यनर्हविशेषणतया जीवस्य ब्रह्मांशत्वमुक्तम्। एवमचिद्वस्तुनोऽपि अचिद्वस्तुवाचिशब्देनाचिद्वस्तुविशिष्टंब्रह्मैवाभिधेयमिति ‘आतमैवेदं सर्व’मिति अभेदव्यपदेशोपपत्तिः, विशेषणविशेष्ययोस्स्वरूपस्वभावभेदज्ञापनाय विशेषणविशेष्ये निष्कृष्य भेदेन व्यपदेशश्चोपपद्यते ब्रह्मणो निर्दोषत्व़ञ्च॥॥प्रतिषेधाच्च॥ ‘सवा एष महानज आत्मा विजरो विमृत्युः, नास्य जरयैतज्जीर्यति, विजरो विमृत्यु’रित्यादिब्रह्मणोऽचिद्धर्मप्रतिषेधाच्च विशेषणविशेष्यभावेनैव अंशांशिभाव इत्यर्थः॥ ॥इति अहिकुण़्डलाधिकरणम्॥