॥नस्थानतोऽपि परस्योभयलिङ्ग सर्वत्रहि॥ संसारिजीवस्येव ब्रह्मणोऽपि मनुष्यादिदेहांतरवस्थित्या तत्प्रयुक्तसुखदुःखभोक्तृत्वमपि प्रसजेत्। यद्यपि परमात्मनो देहांतरवस्थितिप्रयुक्तभोक्तृत्वमाशंक्य परितो दह्यमानगृहान्तर्वर्तित्वे देवदत्तयज्ञदत्तयोरविशिष्टेऽपि तत्स्वामिनस्तदभिमानिनो देवदत्तस्येव यज्ञदत्तस्य तत्कृतदुःखादर्शनवत् देहान्तर्वर्तित्वे जीवपरयोरविशिष्टेऽपि ‘तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’ति श्रुत्यनुसारेण देहाभिमानिजीववन्नपरस्य भोक्तृत्वमिति ‘संभोगप्राप्तिरितिचेन्नवैशेष्या’दिति सूत्रे स्थितम्। तथा स्मृति पादेऽपि सर्वस्यापि परमात्मशरीरतया शरीरं प्रति स्वामित्वमपि परमात्मनोऽस्तीति मनुष्यादिशरीरस्वामिनस्तदन्तर्वर्तिनः" परमात्मनो भोक्तृत्वमवर्जनीयमिति जीवेश्वरस्वभावाविभाग इति पूर्वपक्षं प्रापय्य शरीरस्वामित्वेऽपि तदन्तर्वर्तित्वेऽपि नित्याविर्भूतापहतपाप्मत्वादिगुणकस्य परमात्मनो न भोक्तृत्वप्रसङ्गः। यथा लोके राजशासनानुवर्तिनां तदतिवर्तिनाञ्च राजानुग्रहनिग्रहसुकृतसुखदुःखयोगेऽपि न राज्ञि तत्प्रसक्तिः। एवं न परमात्मनि शास्तरि न भोक्तृत्वप्रसक्तिरिति ‘भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकव’दित्यधिकरणे स्थितम्। तथाऽपि शासकस्यापि राज्ञः स्वेच्छयाऽपि पूयशोणितादिकर्दमितेकारागृहे वसतो दुःखसम्बन्धोऽपरिहार्यः। ब्राह्मणादिशरीरस्वामित्वाच्च ब्राह्मणादिशब्दवाच्यत्वावश्यंभावेन ‘ब्राह्मणो यजेते’त्यादिविधिकिङ्करत्वावश्यंभावेन कर्मवश्यत्वादेरप्यवश्यंभावात् इति पूर्वपक्षे प्राप्ते उच्यते- नस्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि। मनुष्यादिदेहस्थानप्रयुक्तं भोक्तृत्वं परस्य नसंभवति ‘अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्प’इति श्रुत्या सर्वत्रहि विद्यमानं" परंब्रह्म हेयप्रत्यनीकत्वकल्याणैकतानत्वरूपोभयलिङ्गयुक्तमेवभवति। अतो नभोक्तृत्वप्रसङ्गः॥।भेदादितिचेन्न प्रत्येकमेतद्वचनात्॥ यथा जीवस्यापहतपाप्मत्वादिगुणाष्टकयुक्तस्यापि मनुष्यादिदेहयोगरूपावस्थाभेदाद्भोक्तृत्वं, एवं" परमात्मनोऽपि किन्नस्यादितिचेन्न। अन्तर्यामिब्राह्मणे ‘एषत आत्माऽन्तर्याम्यमृत’ इति अन्तर्यामिणः" परस्य ब्रह्मणोनित्याविर्भूतगुणाष्टकत्वलक्षणामृतत्वं श्रूयते। अतो न जीवसाम्यम्॥॥अपिचैवमेके॥ अपिच एकेशाखिनः ‘तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचाकशीती’ति जीवपरयोर्भोक्तृत्वाभोक्तृत्व लक्षणं वैषम्यमधीयते॥॥अरूपवदेव हि तत्प्रधानत्वात्॥ सर्वशरीर्यपि ब्रह्म अरूपवदेव अशरीरितुल्यमेव ‘आकाशोहवै नामरूपयो र्निर्वहिता ते यदन्तरे’ति नामरूपकार्यास्पृष्टत्वे सति नामरूपनिर्वोढृत्वस्य प्रतिपादनेन मनुष्यादिनामरूपसम्बन्धकृतकार्यस्य तत्राप्रसक्तेः। अतस्सर्वत्र विद्यमानमपि ब्रह्मोभयलिङ्गमेव॥ननु ब्रह्मणः कल्याणगुणा न संति ‘अथात आदेशो नेति नेती’ति प्रतिषेधादितिचेत् तत्राह॥ ॥प्रकाशवच्चावैयर्थ्यात्॥ यथा ‘सत्यंज्ञानमनन्तं ब्रह्मे’ति श्रुत्यवैयर्थ्याय ज्ञानादिरूपत्वमभ्युगम्यते, एवं ‘सत्यकामस्सत्यसङ्कल्प’ इत्यादिश्रुत्यवैयर्थ्याय कल्याणगुणगणोऽप्यभ्युपगन्तव्यः॥ननु ‘सत्यं ज्ञान’मिति ज्ञानस्वरूपत्वप्रतिपादनादेव ज्ञानस्य गुणाश्रयत्वासम्भवादर्थाद्गुणा निषिद्धा इतिचेत्तत्राह- ॥आहच तन्मात्रम्॥ ‘सत्यं ज्ञान’मिति श्रुतिर्ब्रह्मणो ज्ञानरूपतामात्रं प्रतिपादयति, न गुणाश्रयतां प्रतिषेधति। तेजोरूपस्य सूर्यस्य प्रभारूपतेजोऽन्तराश्रयत्ववत् ज्ञानरूपस्यापि ब्रह्मणः सार्वज्ञ्याद्याश्रयत्वमुपपद्यते॥॥दर्शयतिचाथो अपिस्मर्यते॥ दर्शयति च वेदान्तगणः ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्, पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रियाचे’ति ब्रह्मण उभयलिङ्गत्वम्। स्मर्यते च ‘योमामजमनादिञ्च वेत्ति लोकमहेश्वर’मित्यादिभिः॥॥अतएवचोपमासूर्यकादिवत्॥ यत एवं तत्तत्स्थानस्थितस्यापि तद्दोषास्पृष्टत्वं अतएव ‘आकाशमेकं हि यथा घटादिषु पृथग्भवेत्। तथाऽऽत्मैकोऽप्यनेकस्थो जलाधारेष्विवांशुमान्॥ एकएव हि भूतात्मा भूतेभूते व्यवस्थितः। एकधा बहुधाचैव दृश्यते जलचन्द्रव’दिति जलगतसूर्यप्रतिबिंबादिवदिति दृष्टांतो युज्यते॥॥अम्बुवदग्रहणात्तु नतथात्वम्॥ तुशब्दश्चोद्यं द्योतयति। अम्बुवदिति सप्तम्यन्ताद्वतिः। परमात्मनो नतथात्वं, सूर्यप्रतिबिंबादिसाम्यं" न सम्भवतीत्यर्थः। कुतः? अम्बुवदग्रहणात् अम्बुनि यथा प्रतिबिंबो गृह्यते न तथा हि परमात्मा गृह्यते। तत्र हि अजलस्थमेव प्रतिबिंबं जलस्थमिव गृह्यते, अतस्तत्र तद्गतदोषासंस्पर्शो युज्यते। प्रकृते च विकारान्तर्वर्तिनि ब्रह्मणि तद्गतदोषासंस्पर्शो न युज्यते वक्तुं॥॥वृद्धिह्रासभाक्तत्वमंतर्भावादुभयसामञ्जस्यादेवंदर्शनाच्चा॥ विकारान्तर्भावप्रयुक्तविकारगतवृद्धिह्रासादिभाक्त्वलक्षणो योदोषः सनापतति। तद्गततया प्रतीयमानस्यापि तद्गतदोषास्पृष्टत्वांशे आकाशसूर्यरूपदृष्टान्तद्वयसामञ्जस्यसम्भवात् ‘सिंह इव माणवक’इत्यादौ विवक्षितकार्यांशएव दृष्टान्तत्वदर्शनाच्च, न सर्वथा साम्यं" दृष्टान्तदार्ष्टान्तिकयोरपेक्षितमिति भावः॥ननु ‘द्वेवाव ब्रह्मणो रूपे’इिति प्रकृतस्य मूर्तामूर्तात्मकप्रपञ्जस्य ‘यथामाहारजनं वास’इत्यादिनोपक्षिप्तस्याकारविशेषस्य च, ‘अतात आदेशो नेति नेती’ति प्रतिषेधात् निर्विशेषमेव ब्रह्म, अतो नोभयलिंगत्वमिति तत्राह- ॥प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीतिच भूयः॥ प्रकृतेः ‘द्वेवाव ब्रह्मणो रूपे’इत्यादिना प्रतिपादितैः रूपैर्ब्रह्मणो यदेतावत्त्वं परिच्छिन्नत्वलक्षणो यः प्रकारः तं इतिशब्देन परामृश्य नेति नेतीति निषेधति। न तु स्वरूपेम ब्रह्मसम्बन्धिरूपं निषेधति। नहि श्रुतिः स्वयमेव मानान्तराप्राप्तं मूर्तामूर्तात्मकप्रपञ्चरूपत्वं ब्रह्मणः प्रतिपाद्य स्वयमेव निषेधतीति युज्यते वक्तुं, ‘प्रक्षाळनाद्धि पङ्कस्य दूरादस्पर्शनं वर’मिति न्यायात्। अतएव निषेधानन्तरमपि ब्रह्मणो भूयो गुणजातं ब्रवीति श्रुतिः। ‘नह्येतस्मादिति नेत्यन्यत्परमस्ती’ति स्वरूपतो गुणतश्च सर्वोत्कृष्टत्वं प्रतिपाद्यते। ‘अथ नामधेयं सत्यस्य सत्य’मिति नामधेयरूपगुणवत्ता च प्रतिपाद्यते। अतः ‘नेति नेती’ति प्रकृतैतावत्त्वमात्रस्य निषेधः॥॥तदव्यक्तमाह हि॥ तद्ब्रह्म अव्यक्तं मानान्तरागम्यमिति श्रुतिराह ‘न चक्षुषा गृह्यते नापि वाचे’ति। ततश्च मानान्तरागम्यस्य श्रुत्येकसमधिगम्यस्य ब्रह्मस्वरूपस्यवा मूर्तामूर्तात्मकप्रपञ्चशरीरकत्वस्य वा न निषेधो युक्तः॥॥अपिसंराधने प्रत्यक्षानुमानाभ्याम्॥ संराधनं=सम्यक्प्रीणनम्। भक्तिरूपापन्ननिदिध्यासनम्। तस्मिन् सत्येव साक्षात्कारः नान्यथेति ‘ततस्तु तं पश्यति निष्कळं ध्यायमानः, नाहं वेदैर्नतपसा न दानेन नचेज्यया। भक्त्या त्वनन्यया शक्य अहमेवं" विधोऽर्जुने’ति श्रुतिस्मृतिभ्यामवगम्यते॥॥प्रकाशादिवच्चावैशेष्यं प्रकाशस्च कर्मण्यभ्यासात्॥ निदिध्यासनजन्यसाक्षात्कारदशायाञ्च ब्रह्मस्वरूपभूतानन्दज्ञानादितुल्यतया ‘अहंमनुरभवं सूर्यश्चे’ति ब्रह्मशरीरभूतमनुसूर्यादिप्रपञ्चस्यापि तत्त्वविद्भिर्वामदेवादिभिस्साक्षात्क्रियमाणत्वात् ब्रह्मस्वरूपवत्तच्छरीरभूत मूर्तामूर्तात्मकप्रपञ्चस्याप्यबाधितत्वं सिद्धम्। ब्रह्मस्वरूपप्रकाशश्च कथं भवतीत्याकांक्षायामाह- प्रकाशश्च कर्मण्यभ्यासादिति। संराधनात्मके ध्यानरूपे कर्मण्यभ्यासात् प्रकाशो भवति, ‘ध्याननिर्मथनाभ्यासाद्देवं" पश्येन्निगूढव’दिति श्रुत्युक्तेरितिभावः॥॥अतोऽनतेन तथा हि लिंगम्॥ अतः उक्तैर्हेतुभिरनन्तेन कल्याणगुणेन विशिष्टंब्रह्म। तथाहि सत्येव उभयलिङ्गं ब्रह्म उपपन्नं भवतीत्यर्थः।