10 मुग्धाधिकरणम्

॥मुग्धेऽर्धसंपत्तिः परिशेषात्॥ जाग्रत्स्वप्नसुषुप्तिमरणानामन्यतमो मोह इति पूर्वपक्षे प्राप्तउच्यते- मुग्धेऽर्धसंपत्तिः परिशेषात्। नतावन्मुग्धो जागरितावस्थो भवितुमर्हति इन्द्रियैर्विषयानिरीक्षणात्। नापि स्वप्नान् पश्यति। निस्संज्ञत्वात्। नापि मृतः। तस्य प्राणोष्मणोरभावात्। नच सुषुप्तः। तद्वैलक्षण्यात्। सुप्तोहि प्रसन्नवदनो निमीलितनेत्रश्च। तस्मान्मोहोनाम मृतेरर्धसंपत्तिः अर्धमृतिरितियावत्। मरणं हि सर्वप्राणवियोगः। सर्वप्राणवियोगोपक्रमकतिपयप्राणसंपत्तिर्मूर्च्छा। तत्रौषधादिवशात् कर्मशेषेच सति वाङ्मनसे प्रत्यागच्छतः। असति तस्मिन् प्राणोष्माणावप्यपगच्छतः। तस्मादर्धमृतिर्मूर्च्छेति स्थितम्॥ ॥इति मुग्धाधिकरणम्॥