09 कर्मानुस्मृतिशब्दविध्यधिकरणम्

॥स एव तु कर्मानुस्मृतिश्बदविधिभ्यः॥ सुप्तस्य मुक्ताविषयतया ब्रह्मणि लीनस्य पुनर्देहसम्बन्धाभावादन्य एवोत्तिष्ठति सुप्तिरहितपुरुषेषु वैदिककर्मणाञ्च साफल्यं भविष्यतीति प्राप्त उच्यते- स एव तु स एवोत्तिष्ठति। कुतः? कर्मानुस्मृतिशब्दविधिभ्यः। सुप्तेः प्राक्कृतं कर्म तेनैव भोक्तत्र्यम्। अन्यथा कृतहानादिप्रसङ्गात्। ‘योऽहं सुप्तस्सोऽहं" जागर्मी’ति अनुस्मृतेः, तइह व्याघ्रो वा सिह्मो वेत्यादिशब्दान्मोक्षार्थविधिवैयर्थ्यप्रसङ्गाच्च न सुषुप्तिर्मुक्तितुल्या। अत एव प्रजापतिविद्यायां ‘नाह खल्वयमेवं सम्प्रत्यात्मानं जानाती’ति अज्ञत्वेन सुप्तिर्निन्द्यते। मनसैवैतान् कामान् पश्यन् रमत इति मुक्तिस्तद्विलक्षणतया प्रतिपाद्यते। अतो न सुप्तिर्मुक्तिरिति स एवोत्तिष्ठतीति ततश्च स एवाहमस्मीति प्रत्यभिज्ञावशात् सुप्तौ लयो न पुनरुक्तविरोधीति भावः॥ ॥इति कर्मानुस्मृतिशब्दविध्यधिकरणम्॥