॥तदभावो नाडीषु तच्छ्रुतेरात्मनिच॥ ‘तद्यत्रैतत्सुप्तस्समस्तस्संप्रसन्नः किञ्चिन्नविजानाति आसु तदा नाडीषु सृप्तोभवति, ताभिः प्रत्यवसृप्य पुरीततिशेते, य एषोऽन्तर्हृदय आकाशस्तस्मिन्शेते’ इति नाडीपुरीतद्ब्रह्मणां सुषुप्तिस्थानत्वश्रवणात्, समुच्चये सप्तम्यवगतनिरपेक्षाधारत्वप्रतीतिभंगप्रसंगात् युगपदनेकस्थानवृत्त्यसंभवाच्च विकल्पइति पूर्वपक्षे प्राप्त उच्यते- तदभावो नाड़ीषु तच्छ्रुतेरात्मनिच। तदभावः पूर्वनिर्दिष्टस्वप्नाभावः। सुषुप्तिरितियावत्। नाडीषु, आत्मनि परमात्मनि, चकारात्पुरीततिचेत्यर्थः। तच्छ्रुतेः पूर्वोदाहृतवाक्येषु ना़डीपुरीतद्ब्रह्मणां" त्रयाणामपि सुषुप्तजीवाधारत्वश्रुतेरित्यर्थः। नाडीमार्गेणैव गत्वा पुरीतदाख्यं हृदयवेष्टनमांसपिंडं" तत्र हृदयांतर्वर्तिनि ब्रह्मणि शयाने जीवे प्रसादे शेते खट्वायां शेते पर्यंके शेत इतिवन्नाड़ीषु शेते पुरीतति शेते ब्रह्मणि शेत इति निर्देशात् त्रयस्याप्युपपत्तेः समुच्चये संभवति पाक्षिकबाधगर्भे विकल्पो नांगीकार्यः। साक्षात् स्थानतु ब्रह्मैवेति॥॥अतः प्रबोधोऽस्मात्॥ यतः ब्रह्मैव सुषुप्तिस्थानं अत एव सुप्तस्य ‘सत आगम्य नविदु’रिति ब्रह्मण एव नित्यवत् प्रबोधश्श्रूयमाण उपपद्यते इति सिद्धांतः॥ ॥इति तदभावाधिकरणम्॥