॥संध्ये सृष्टिराहहि॥ ‘नतत्र रथा नरथयोगा’इति वाक्ये संध्ये स्वप्नस्थाने जीवकर्तृकैव सृष्टिराम्नायते। ‘सहिकर्ते’ति स्वप्नदृशं प्राक् प्रस्तुतं जीवमेव स इति शब्देन परामृश्य तस्य कर्तृत्वं श्रुतिराहहि॥।निर्मातारञ्चैके पुत्रादयश्च॥ एके शाखिनः ‘यएषसुप्तेषु जागार्ति कामं कामं पुरुषो निर्मिमाण’ इति कामानां निर्मातारं जीवमामनंति। अत्र कामशब्देन काम्यमानाः पुत्रादयो वर्ण्यते। पूर्वं हि ‘सर्वान् कामान् छंदतः प्रार्थयस्व, शतायुषः पुत्रपौत्रान्वृणीष्वे’ति पुत्रादयोहि कामाः प्रकृताः। अतो जीवएवात्र कर्तृत्वेनाभिधीयते। न च जीवस्य कथमीदृशं सृष़्टिसामर्थ्यमिति वाच्यं। प्रजापतिवाक्ये जीवस्यापि स्तयसङ्कल्पत्वादेराम्नानात्। नच तत्संसारदशायां तिरोहितमिति वाच्यं, मुक्ताविव स्वप्नदशायामाविर्भावादिति द्वाभ्यां सूत्राभ्यां" पूर्वपक्षे प्राप्त उच्यते-॥मायामात्रंतु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्॥ तुशब्दः पक्षं व्यावर्तयति। मायाशब्दोह्याश्चर्यत्वं प्रवृत्तिनिमित्तीकृत्य भगवत्संकल्पवाची। ‘मायावयुनं ज्ञान’मिति निघंटुपाठाच्च मायाशब्दो ज्ञानरूपसङ्कल्पवचनः। मायामात्रं भगवत्संकल्पमात्रसृष्टम्। नतु जीवसृष्टमित्यर्थः। तत्र हेतुः कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति। जीवस्य सत्यसंकल्पत्वादिब्राह्मरूपस्य प्रजापतिवाक्योदितस्य संसारदशायां सर्वात्मनाऽनभिव्यक्तत्वात् न तस्य कर्तृत्वसंभावनाऽपि। ‘सहि कर्ते’ति हिशब्देन प्रसिद्धस्यैव कर्तृतया निर्देशात्। स्वप्नदृश एव कर्तृत्वे स्वाहितचोरव्याघ्रादेस्सृष्टिर्नोपपद्यते। ‘इमान् स्वाप्नान्पदार्थानस्राक्ष’मिति प्रतिसन्धानप्रसंगाच्च। ‘कामं कामं पुरुषो निर्मिमाण’इत्यत्र ‘तदेव शुक्रं तद्ब्रह्मे’त्युक्त्या तस्य वचनस्य ब्रह्मविषयत्वाच्च न जीवस्य स्रष्टृत्वं॥ननु स्वाभाविकस्यापहतपाप्मत्वादेस्सत्यसंकल्पत्वपर्यंतस्यानभिव्यक्तिः किन्निबंधनेत्यत्राह- ॥पराभिध्यानात्तु तिरोहितं ततोह्यस्य बंधविपर्ययौ॥ पराभिध्यानात् परमात्मसंकल्पात् तत्तिरोहितं भवति। तत्संकल्पादेवहि अस्य जीवस्य बंधोमोक्षश्च। ‘यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विंदते अथ सोऽभयं" गतो भवति यदाह्येवैष एतस्मिन्नुदरमंतरं कुरुते अथ तस्य भयंभवति, एषह्येवानंदयाती’ति श्रवणात्॥॥देहयोगाद्वा सोऽपि॥ सोऽपि तिरोभावः सृष्टिकाले देहयोगाद्वारेण वा भवति प्रळयकाले सूक्ष्माचिच्छक्तियोगद्वारेण वा भवतीत्यर्थः॥।सूचकश्च हि श्रुतेराचक्षतेच तद्विदः॥ स्वाप्नार्थोहि शुभाशुभसूचकः ‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति। समृद्धिंतत्र जानीयात्तस्मिन् स्वप्ननिदर्शने, स्वप्ने पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ती’ति श्रुतेः। आचक्षतेच स्वप्नाध्यायविदस्तथा। ततश्च यदीयं स्वप्नदृष्टिर्जीवकर्तृका तर्हि शुभसूचकानेव सृष्ट्वा पश्येत् नाशुभसूचकान्। अतः न जीवकर्तृकेयं सृष्टिरित्युभयलिंगपादे स्थितं। यदत्र परैरुच्यते स्वप्नसृष्टेस्सत्यत्वे रथादिसृष्टिवदादित्यादेरपि सृष्ट्यभ्युपगमे जाग्रद्दशावत् स्वप्नेऽपि ज्योतिरंतरव्यतिकरसत्त्वात् स्वप्रकाशत्वस्य दुर्विवेचतास्यात्। अतः स्वप्नदृष्टानां सत्यत्वं प्रकरणविरुद्धमिति, तदसत्। परमतेऽपि, मनसः प्रकाशकस्य सत्त्वेन स्वप्ने स्वयंज्योतिष्ट्वसाधनमसंगतमेवहि स्यात्। तस्माल्लोकप्रसिद्धादित्याद्यभावेऽपि स्वकीयज्ञानेन भासकत्वात् स्वयंज्योतिष्ट्वमस्तीत्यत्रैवास्याः श्रुतेस्तात्पर्यमिति सिद्धम्॥ ॥इति संध्याधिकरणम्॥